शंडतीर्थमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि शंडतीर्थमनुत्तमम् ॥
सर्वपापोपशमनं सर्वकामफलप्रदम्
॥१॥तस्योत्पत्तिं प्रवक्ष्यामि शृणुष्वैकमनाः प्रिये ॥
पुरा पंचशिरा आसीद्ब्रह्मा लोकपितामहः
॥२॥शिरस्तस्य मया छिन्नं कस्मिंश्चित्कारणांतरे ॥
तत्र गंधवती जाता ब्रह्मणः सा च शोणितैः
॥३॥तत्रोद्गता महातालास्तेन तालवनं स्मृतम् ॥
अथ करतले लग्नं कपालं ब्रह्मणो मम
॥४॥शरीरं कृष्णतां यातं मम चैव वृषस्य च ॥
अथ तीर्थान्यनेकानि गतोहं पापशंकया
॥५॥न क्वचिद्व्रजते पापं ततः प्रभासमागतः ॥
क्षेत्रे तत्र मया दृष्टा प्राची देवी सरस्वती
॥६॥तत्र मे वृषभः स्नातुं प्रविष्टो जलमध्यतः ॥
तत्क्षणाच्छ्वेतता प्राप्तो मुक्तोहमपि हत्यया
॥७॥करमध्ये च मे लग्नं कपालं पतितं तदा ॥
कपालमोचनश्चासौ लिंगरूपी स्थितोऽभवत्
॥८॥तत्रापि यो ददेच्छ्राद्धं प्राचीदेव्यास्तु संनिधौ ॥
मातृकं पैतृकं चैव तृप्तं कुलशतं तथा
॥९॥भवेच्च तस्य तृप्तिस्तु यावत्कल्पास्तु सप्ततिः ॥
मास आश्वयुजे देवि कृष्णपक्षे चतुर्दशी ॥
तत्र दद्यात्तु यः श्राद्धं दक्षिणामूर्तिमाश्रितः
॥१०॥यथावित्तोपचारेण सुपात्रे च यथाविधि ॥
यावद्युगसहस्रं तु तृप्ताः स्युस्ते पितामहाः
॥११॥अन्नसुवर्णदानं च दधिकंबलमेव च ॥
तत्र देयं विधानेन सर्वपापोपशुद्धये
॥१२॥कृष्णरूपी वृषो देवि यदा श्वेतत्वमागतः ॥
शंडतीर्थमितिख्यातं तेन त्रैलोक्यपूजितम्
॥१३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंडतीर्थमाहात्म्यवर्णनंनाम त्रिसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७३ ॥