ततो गच्छेन्महादेवि केतुलिंगं महाप्रभम्
ईश्वर उवाच
ततो गच्छेन्महादेवि केतुलिंगं महाप्रभम् ॥
राह्वीशानादुत्तरे च मंगलायाश्च दक्षिणे
॥१॥धनुषोंतरमानेन नातिदूरे व्यवस्थितम् ॥
लिंगं महाप्रभावं हि सर्वपातकनाशनम्
॥२॥केतुर्नाम ग्रहोत्युग्रः शिवसद्भावभावितः ॥
वर्तुलोऽतीव विस्तीर्णो लोचनाभ्यां सुभीषणः
॥३॥पलालधूमसंकाशो ग्रहपीडापहारकः ॥
तत्राकरोत्तपश्चोग्रं दिव्याब्दानां शतं प्रिये
॥४॥तस्य तुष्टो महादेवो ग्रह त्वं प्रददौ प्रिये ॥
एकादशशतानां च ग्रहाणामाधिपत्यताम्
॥५॥तत्रस्थं पूजयेद्भक्त्या केतुलिंगं महाप्रभम् ॥
केतूदये महाघोरे तस्मिन्दृष्टे विशेषतः
॥६॥ग्रहपीडासु चोग्रासु पूजयेत्तं विधानतः ॥
पुष्पैर्गंधैस्तथा धूपैर्नैवेद्यैर्विविधैः शुभैः
॥७॥तोषयेद्विधिवद्देवं केतुं कल्मषनाशनम्
॥८॥इति संक्षेपतः प्रोक्तं केतुलिंगं महोदयम् ॥
ग्रहपीडोपशमनं सर्वपातकनाशनम्
॥९॥एतानि नव लिंगानि ग्रहाणां कथितानि ते ॥
यः पश्यति नरो नित्यं तस्य पीडाभयं कुतः
॥१०॥न दौर्भाग्यं कुले तस्य न रोगी नैव दुःखितः ॥
जायते पुत्रवद्देवि तं रक्षंति महाग्रहाः
॥११॥इति ते कथितं सम्यक्चतुर्दशायतनं प्रिये ॥
विघ्नेश्वरं समारभ्य यावत्केतुप्रतिष्ठितम्
॥१२॥नवग्रहेश्वराणां तु माहात्म्यं पापनाशनम् ॥
तथैव पंचलिंगानां श्रुत्वा पापैः प्रमुच्यते
॥१३॥कपर्द्दिनं समारभ्य चंडनाथांतकानि च ॥
पंचैव मुद्रालिंगानि नापुण्यो वेद मानवः
॥१४॥सूर्येश्वरं समारभ्य केतुलिंगांतकानि वै ॥
नवग्रहाणां लिंगानि नान्यो जानाति कश्चन
॥१५॥चतुर्दशविधा त्वेवं प्रोक्ताऽऽयतनसंगतिः ॥
यश्चैनां वेद भावेन स क्षेत्रफलमश्नुते
॥१६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये केत्वीश्वरमाहात्म्यवर्णननामैकपंचाशोऽध्यायः ॥ ५१ ॥