ब्रह्मेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो ब्रह्मेश्वरं गच्छेत्तस्य दक्षिणतः स्थितम् ॥
ब्रह्मणा स्थापितं पूर्वं ब्रह्मकुण्डसमीपतः ॥
त्रिषु लोकेषु विख्यातं रक्ष्यमाणं गणैर्मम
॥१॥तत्र स्नात्वा चतुर्दश्याममावास्यां विशेषतः ॥
श्राद्धं च विधिवत्कृत्वा ब्रह्मेशं पूजयेत्ततः
॥२॥विप्रेभ्यः कांचनं दद्यात्प्रीतये शंकरस्य च
॥३॥एवं कृत्वा नरो देवि लभते जन्मनः फलम् ॥
विपुलां कीर्तिमायाति मोदते ब्रह्मणा प्रिये
॥४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुंडमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनंनाम पंचाशदु त्तरशततमोऽध्यायः ॥ १५० ॥