त्रिनेत्रेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि देवं चैव त्रिलोचनम् ॥
ऋषितीर्थसमीपे तु सर्वपातकनाशनम् ॥
न्यङ्कुमत्युत्तरे कूल ऋषिभिः पूजितं पुरा
॥१॥त्रिनेत्रा मत्स्यका यत्र जलं स्फटिकसन्निभम् ॥
तत्र स्नात्वा नरो देवि मुच्यते ब्रह्महत्यया
॥२॥कृष्णपक्षे चतुर्द्दश्यां मासे भाद्रपदे तथा ॥
उपवासं तु कुर्वीत रात्रौ जागरणं तथा
॥३॥प्रातः श्राद्धं प्रकुर्वीत विधिवत्पूजयेच्छिवम् ॥
रुद्रलोके वसेद्देवि वर्षाणामयुतत्रयम्
॥४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये त्रिनेत्रेश्वरमाहात्म्यवर्णनंनाम पञ्चसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७५ ॥