ऋषितोयानदीमाहात्म्यवर्णनम्
ईश्वर उवाच
तस्मादाग्नेयदिग्भागे गव्यूतिसप्तकेन च ॥
स्थानं देवकुलंनाम देवानां यत्र संगमः
॥१॥ऋषीणां यत्र सिद्धानां पुरा लिंगे निपातिते ॥
यस्माज्जातो महादेवि तस्माद्देवकुलं स्मृतम्
॥२॥तस्य पश्चिमदिग्भाग ऋषितोया महानदी ॥
ऋषीणां वल्लभा देवि सर्वपातकनाशिनी
॥३॥तत्र स्नात्वा नरः सम्यक्पितॄणां निर्वपेन्नरः ॥
सप्तवर्षायुतान्येव पितॄणां तृप्तिमावहेत्
॥४॥सुवर्णं तत्र देयं तु अजिनं कंबलं तथा ॥
आषाढे त्वमावास्यायां यत्किञ्चिद्दीयते ध्रुवम्
॥५॥वर्द्धते षोडशगुणं यावदायाति पूर्णिमा
॥६॥सुवर्णं तत्र देयं तु अजिनं कंबलं तथा ॥
मुच्यते पातकैः सर्वैः सप्तजन्मकृतैरपि
॥७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य ऋषितोयानदीमाहात्म्यवर्णनंनाम षण्णवत्युत्तरद्विशततमोऽध्यायः ॥ २९६ ॥