मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ६९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 69

गौरीश्वरेति विख्यातं यत्त्वया लिंगमुत्तमम्

देव्युवाच

गौरीश्वरेति विख्यातं यत्त्वया लिंगमुत्तमम् ॥

कुत्र तिष्ठति तल्लिंगं पूजितं यत्फलं लभेत्

॥१॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि माहात्म्यं पापनारानम् ॥

गौरीश्वरस्य देवस्य सर्वकामप्रदस्य वै

॥२॥

इदं तपोवनं देवि ख्यातं गौर्या महाप्रभम् ॥

धनुषां पचपंचाशत्समंतात्परिमंडलम्

॥३॥

तत्र मध्ये स्थिता देवी एकपादा तपोन्विता ॥

तस्या उत्तरतो देवि किंचिदीशानसंस्थितम्

॥४॥

धनुषां चतुरंते च लिंगं पापभयापहम् ॥

यस्तत्पूजयते भक्त्या लिंगं भक्तियुतो नरः ॥

कृष्णाष्टम्यां विशेषेण स मुक्तः पातकैर्भवेत्

॥५॥

गोदानं चात्र शंसंति सुवर्णं द्विजपुंगवे ॥

अन्नदानं विशेषेण सर्वपापप्रशांतये

॥६॥

गोघ्नो वा ब्रह्महा वाऽपि तथा दुष्कृतकर्मकृत् ॥

सर्व पापैः प्रमुच्येत तस्य लिंगस्य दर्शनात्

॥७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभास क्षेत्रमाहात्म्ये गौरीश्वरमाहात्म्यवर्णनंनामैकोनसप्ततितमोऽध्यायः ॥ ६९ ॥