पुनः पप्रच्छ विप्रेंद्राः क्षेत्रमाहात्म्यविस्तरम्
सूत उवाच
इति प्रोक्ता तदा देवी शंकरेण यशस्विनी ॥
पुनः पप्रच्छ विप्रेंद्राः क्षेत्रमाहात्म्यविस्तरम्
॥१॥देव्युवाच
अद्य मे सफलं जन्म सफलं च तपः प्रभो ॥
देवत्वमद्य मे जातं त्वत्प्रसादेन शंकर
॥२॥अद्याहं कृतकल्याणी ज्ञानदृष्टिः कृतात्वया ॥
अद्य मे भूषितौ कर्णौ क्षेत्र माहात्म्यभूषणौ
॥३॥अद्य मे तेजसः पिंडो जातो ज्ञानं हृदि स्थितम् ॥
अद्य मे कुलशीलं च अद्य मे रूपलक्षणम्
॥४॥अद्य मे भ्रांतिरुच्छिन्ना तीर्थभ्रमणसंभवा ॥
प्रभासे निश्चलं जातं मनो मे मानिनां वर
॥५॥आराधितो मया पूर्वं तुष्टो मेऽद्य सुरेश्वरः ॥
वह्निना वेष्टिता साहमेकपादेन संस्थिता
॥६॥तत्तपः सफलं त्वद्य जातं मे भक्तवत्सल ॥
प्रभासक्षेत्रमाहात्म्यमद्य मे प्रकटीकृतम्
॥७॥पुनः पृच्छामि देवेश याथातथ्यं वद प्रभो
॥८॥अद्यापि संशयो नाथ तीर्थमाहात्म्यसंभवः ॥
अन्यत्कौतूहलं देव कथयस्व महेश्वर
॥९॥अयं यो वर्त्तते देव चंद्रस्ते शिरसि स्थितः ॥
कस्यायं कथमुत्पन्नः कस्मिन्काले वद प्रभो
॥१०॥ईश्वर उवाच
अस्मिन्काले महादेवि वाराह इति विश्रुते ॥
परार्द्धे तु द्वितीयेऽस्मिन्वर्तमाने तु वेधसः
॥११॥द्वितीयमासस्यादौ तु प्रतिपद्या प्रकीर्तिता ॥
वाराहेणोद्धृता तस्यां तथा चादौ धरा प्रिये ॥
तेन वाराहकल्पेति नाम जातं धरातले
॥१२॥तस्मिन्कल्पे महादेवि गते संध्यांशके प्रिये ॥
प्रथमस्य मनोश्चादौ देवि स्वायंभुवस्य हि
॥१३॥क्षीरोदे मथ्यमाने तु दैवतैर्दानवैरपि ॥
रत्नानि जज्ञिरे तत्र चतुर्द्दशमितानि वै
॥१४॥तेषां मध्ये महातेजाश्चंद्रमास्तत्त्वसंभव ॥
सोऽयं मया धृतो देवि अद्यापि शिरसि प्रिये
॥१५॥विषे पीते महादेवि प्रभासस्थस्य मे सदा ॥
भूषणं मुक्तये देवैर्मम चंद्रः कृतः पुरा
॥१६॥शशिनाभूषितो यस्मात्तेनाहं शशिभूषणः ॥
तत्र स्थाने स्थितोऽद्यापि स्वयंभूर्लिंगमूर्त्तिमान्
॥१७॥सर्वसिद्धिप्रदाता च कल्पस्थायी सदा प्रिये ॥
इत्येतत्कथितं देवि किमन्यत्परिपृच्छसि
॥१८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शिवशिरोभूषण चन्द्रोत्पत्तिवृत्तान्तवर्णनंनामाष्टादशोऽध्यायः ॥ १८ ॥