मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २६१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 261

ततो गच्छेन्महादेवि यत्र न्यंकुमती नदी

ईश्वर उवाच

ततो गच्छेन्महादेवि यत्र न्यंकुमती नदी ॥

मर्यादार्थं समानीता क्षेत्रशांत्यै च शंभुना

॥१॥

तस्यैव दक्षिणे भागे सर्वपापप्रणाशिनी ॥

तस्यां स्नात्वा च वै सम्यग्यः श्राद्धं कुरुते नरः ॥

स पितॄंस्तारयेत्सर्वान्नरकान्नात्र संशयः

॥२॥

वैशाखे शुक्लपक्षे तु तृतीयायां च भामिनि ॥

स्नात्वा तु तर्पयेद्भक्त्या तिलदर्भजलैः प्रिये ॥

श्राद्धं कृतं भवेत्तेन गंगायां नात्र संशयः

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्यवर्णनंनामैकषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६१ ॥