कौरवेश्वरीमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि तस्माद्वै कौरवेश्वरीम् ॥
यस्य नाम्ना कुरुक्षेत्रं तेन साराधिता पुरा
॥१॥आराधिताऽसौ भीमेन कृत्वा क्षेत्रस्य रक्षणम् ॥
महानवम्यां यत्नेन यस्तां पूजयते नरः ॥
तं पुत्रमिव कल्याणी रक्षते नात्र संशयः
॥२॥भोजनं तत्र दातव्यं दंपतीनां न संशयः ॥
दिव्यैर्भक्ष्यैः सुमिष्टान्नैः सा तुष्यति ततः स्तुता
॥३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कौरवेश्वरीमाहात्म्यवर्णनंनाम पञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५० ॥