मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २९९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 299

माधवमाहात्म्यवर्णनम्

ईश्वर उवाच

तस्यैव दक्षिणे भागे नातिदूरे व्यवस्थितम् ॥

शंखचक्रगदाधारी माधवस्तत्र संस्थितः

॥१॥

एकादश्यां सिते पक्षे सोपवासो जितेन्द्रियः ॥

यस्तं पूजयते भक्त्या गंधपुष्पानुलेपनैः ॥

स याति परमं स्थानमपुनर्भवदायकम्

॥२॥

अत्र गाथा पुरा गीता ब्रह्मणा लोककर्तृणा ॥

विष्णुकुण्डे नरः स्नात्वा यो वै माधवमर्चयेत् ॥

स यास्यति परं स्थानं यत्र देवो हरिः स्वयम्

॥३॥

एतत्ते सर्वमाख्यातं माहात्म्यं विष्णुदैवतम् ॥

सर्वकामप्रदं नृणां सर्वपातकनाशनम्

॥४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये माधवमाहात्म्यवर्णनंनाम नवनवत्युत्तरद्वि शततमोऽध्यायः ॥ २९९ ॥