मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ४६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 46

ततो गच्छेन्महादेवि तस्यैवोत्तरतः स्थितम्

ईश्वर उवाच

ततो गच्छेन्महादेवि तस्यैवोत्तरतः स्थितम् ॥

लिंगं महाप्रभावं तु बुधेश्वरमिति श्रुतम्

॥१॥

धनुषां द्वितये चैव नातिदूरे व्यवस्थितम् ॥

सर्वपाप हरं लिंगं दर्शनादेव भामिनि

॥२॥

बुधेन चैव देवेशि तत्र तप्तं महातपः ॥

स्थापितं विमलं लिंगं समाराध्य सदाशिवम्

॥३॥

वर्षायुतानि चत्वारि संपूज्य तु विधानतः ॥

अनन्यचेताः शांतात्मा प्रत्यक्षीकृतवान्भवम्

॥४॥

ततस्तुष्टमना देवो ग्रहत्वं तस्य तद्ददौ ॥

तं संपूज्य विधानेन सोमपुत्रप्रतिष्ठितम् ॥

सौम्याष्टम्यां विशेषेण राजसूयफलं लभेत्

॥५॥

न दौर्भाग्यं कुले तस्य न चैवेष्टवियोजनम् ॥

शत्रुतो न भयं तस्य भवेत्तस्यप्रसादतः

॥६॥

इति संक्षेपतः प्रोक्तं माहात्म्यं बुधदैवतम् ॥

श्रुत्वाऽभिनंद्य प्रयतः प्राप्नोति परमं पदम्

॥७॥

इति श्रीस्कान्दे महापु राण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बुधेश्वरमाहात्म्यवर्णनंनामषट्चत्वारिंशोऽध्यायः ॥ ४६ ॥