मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १८८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 188

ततो गच्छेन्महादेवि तत्र स्थाने तु संस्थितम्

ईश्वर उवाच

ततो गच्छेन्महादेवि तत्र स्थाने तु संस्थितम् ॥

रुद्रेश्वरेतिनामानं स्वयंभूतं धरातले

॥१॥

आदिप्रभासात्पुरतो धनुषां त्रितये स्थितम् ॥

रुद्रेण ध्यानमास्थाय स्वं तेजस्तत्र योजितम्

॥२॥

ततो रुद्रेश्वरंनाम सर्वपातकनाशनम् ॥

तं दृष्ट्वा पूजयित्वा च सर्वान्कामानवाप्नुयात्

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रुद्रेश्वरमाहात्म्यवर्णनंनामाष्टाशीत्युत्तरशततमोऽध्यायः ॥ १८८ ॥