दुर्वासादित्यमाहात्म्यवर्णनम्
ततो गच्छेन्महादेवि दुर्वासादित्यमुत्तमम् ॥
यत्र दुर्वाससा तप्तं तपो वर्षसहस्रकम् ॥
निराहारो जिताहारः सूर्याराधनतत्परः
॥१॥एवं कालेन महता दिव्यतेजा जनाधिपः ॥
प्रत्यक्षं दर्शनं गत्वा प्राह सूर्यो महामुनिम्
॥२॥सूर्य उवाच
मा ब्रह्मन्साहसं कार्षीर्वरं वरय सुव्रत ॥
अप्राप्यमपि दास्यामि यत्ते मनसि वर्तते
॥३॥दुर्वासा उवाच
प्रसन्नो यदि मे देव वरार्हो यदि चाऽप्यहम् ॥
अत्र स्थाने त्वया स्थेयं यावत्तिष्ठति मेदिनी
॥४॥दुर्वासादित्यना माऽत्र लोके ख्यातिं च गच्छतु ॥
मया प्रतिष्ठिता या तु प्रतिमा तव सुन्दरी
॥५॥तस्यां सांनिध्यमेवास्तु तव देव जगत्पते ॥
सांनिध्यं कुरुत चात्र यमुना दुहिता तव ॥
त्वत्सुतस्तु महातेजा धर्मराजो महाबलः
॥६॥सूर्य उवाच
एतत्सर्वं मुनिश्रेष्ठ त्वयोक्तं संभविष्यति ॥
तीर्थानां कोटिरन्या च गंगादीनां महामुने
॥७॥आगमिष्यति ते स्थानं निश्चितं वचनान्मम ॥
अत्र स्थाने मया ब्रह्मन्स्थातव्यं सह दैवतैः
॥८॥आदित्यानां प्रभावैस्तु ब्रह्मांडोदरवासिनाम् ॥
तेषां माहात्म्यसंयुक्तः स्थास्ये चात्र महामुने
॥९॥सवितॄणां सहस्रेण दृष्टेनैव तु यत्फलम् ॥
तत्फलं कोटिगुणितं दुर्वासादित्यदर्शनात्
॥१०॥लप्स्यंते प्राणिनः सर्वे यज्ञकोटिफलं तथा ॥
एवमुक्त्वा तदा सूर्यः सस्मार तनयां निजाम् ॥
तथा च धर्मेराजानं सर्वप्राणिनियामकम्
॥११॥स्मृतमात्रा तत्र भित्त्वा पातालतलमुद्ययौ ॥
सा नदीरूपिणी देवी तीर्थकोटिसमन्विता
॥१२॥यमश्च तत्र भगवान्कालदंडधरस्तदा ॥
ऊचतुः प्रणयोपेतौ सूर्यं भुवनसाक्षिणम्
॥१३॥यम उवाच
आज्ञापयतु मां देवो यमुनां च जगत्प्रभुः ॥
कार्यं यद्भाविनोऽर्थस्य तत्करिष्ये न संशयः
॥१४॥सूत उवाच
अत्र क्षेत्रे स्वरूपेण स्थातव्यं वचनान्मम ॥
पापिनां प्राणिनां चात्र रक्षा कार्या प्रयत्नतः
॥१५॥सूर्यभक्ताः सदा रक्ष्या ब्राह्मणा गृहमेधिनः ॥
त्वं चापि यमुने चात्र कोटितीर्थेन संयुता
॥१६॥वस त्वं भव सुप्रीता स्थाने दुर्वाससोद्भवे ॥
इत्येवमुक्त्वा देवेशस्तत्र दुर्वाससोंऽतिके
॥१७॥पश्यतां सर्वदेवानामंतर्द्धानमगात्प्रभुः ॥
दुर्वासास्तु तदा हृष्टो यावत्पश्यति स्वाश्रमम्
॥१८॥तावत्पातालमार्गेण यमुना प्रादुराभवत् ॥
यमश्च भगवांस्तत्र दृष्टः क्षेत्रपरूपधृक्
॥१९॥ईश्वर उवाच
इत्थं समभवत्तत्र यमुनोद्भेदमुत्तमम् ॥
कुण्डमादित्यतो याम्ये दुंदुभिस्तत्र पूर्वतः
॥२०॥क्षेत्रपालो महादेवि यतो दुंदुभिनिःस्वनः ॥
तत्र स्नात्वा महाकुण्डे यः संतर्पयते पितॄन्
॥२१॥दश वर्षाणि पञ्चैव तृप्तिं यांति पितामहः ॥
पिंडदानेन दत्तेन पितॄणां तुष्टिमावहेत् ॥
नरके तु स्थितानां च मुक्तिर्भूयान्न संशयः
॥२२॥माघे मासि सिते पक्षे सप्तम्यां संयतात्मवान् ॥
दुर्वासार्कं च संपूज्य मुच्यते ब्रह्महत्यया
॥२३॥स्नात्वा तु यमुना कुण्डे माधवे मासि मानवः ॥
पूजयेद्भक्तिभावेन रविं गगनभूषणम्
॥२४॥पठेत्सहस्रं नाम्ना तु दुर्वासादित्यसंनिधौ ॥
षण्मासान्मुच्यते जंतुर्यद्यपि ब्रह्महा नरः
॥२५॥सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ॥
दुर्वासादित्यनामानं सूर्यं को नु न पूजयेत्
॥२६॥न तदस्ति भयं किंचिद्यदनेन न शाम्यति ॥
दर्शनेनापि सूर्यस्य तत्र दुर्वाससः प्रिये
॥२७॥संपद्यंते तथा कामाः सर्व एव यथेप्सिताः ॥
बंध्यानां पुत्रफलदं भीतानां भयनाशनम्
॥२८॥भूतिप्रदं दरिद्राणां कुष्ठिनां परमौषधम् ॥
बालानां चैव सर्वेषां ग्रहरक्षोनिवारणम् ॥
महापापोपशमनं दुर्वासादित्यदर्शनम्
॥२९॥हेमाश्वस्तत्र दातव्यः सूर्यमुद्दिश्य भामिनि ॥
ब्राह्मणे वेदसंयुक्ते तेन दत्ता मही भवेत्
॥३०॥यस्तत्र पूजयेद्देवं क्षेत्रपालं च दुन्दुभिम् ॥
स पुत्रपशुमान्धीमाञ्छ्रीमान्भवति मानवः
॥३१॥न भयं जायते तस्य त्रिविधं वरवर्णिनि ॥
अर्धगव्यूतिमात्रं तु तत्र क्षेत्रं रवेः स्मृतम्
॥३२॥न तत्र प्रविशेज्जन्तुः सूर्यभक्तिविवर्जितः ॥
इत्येतत्कथितं देवि माहात्म्यं सूर्यदैवतम्
॥३३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दुर्वासादित्यमाहात्म्यवर्णनंनाम षट्त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३६ ॥