क्षेमेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततः पश्येन्महादेवि तस्य दक्षिणतः स्थितम् ॥
क्षेमेश्वरेति विख्यातमृषितोयातटे स्थितम्
॥१॥भूतीश्वरेति नामास्य पूर्वं च परिकीर्तितम् ॥
क्षेमेशेति कलौ देवि तस्य नाम प्रकीर्तितम्
॥२॥तं दृष्ट्वा पूजयित्वा च मुक्तः स्यात्सर्वकिल्बिषैः
॥३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्षेमेश्वरमाहात्म्यवर्णनंनाम त्रयोविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२३ ॥