आशापूरं ततो गच्छेद्विघ्नराजमकल्मषम्
ईश्वर उवाच
आशापूरं ततो गच्छेद्विघ्नराजमकल्मषम् ॥
शशिभूषण वायव्ये संस्थितं विघ्ननाशनम् ॥
आशां पूरयते यस्मात्तेनाशापूरकः स्मृतः
॥१॥यत्र रामेण देवेशि सीतया लक्ष्मणेन च ॥
समाराध्य च विघ्नेशं प्राप्तं काममभीप्सितम्
॥२॥यत्र चंद्रमसा देवि समाराध्य गणाधिपम् ॥
लब्धं तद्वांछितं पूर्वं सर्वकुष्ठविनाशनम्
॥३॥चतुर्थ्यां शुक्लपक्षे च मासि भाद्रपदे तथा ॥
तत्र संपूज्य देवेशं मोदकैर्भोजयेद्द्विजान्
॥४॥वाञ्छितां लभते सिद्धिं विघ्नराजप्रसादतः ॥
क्षेत्रस्यास्य महादेवि रक्षार्थं तु मया पुरा
॥५॥ततो नियुक्तो देवेशि यायिनां विघ्ननाशनः
॥६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य आशापूरविघ्नराज माहात्म्यवर्णनंनामैकचत्शरिंशदुत्तर त्रिशततमोऽध्यायः ॥ ३४१ ॥