मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २४७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 247

पिंगलादित्यपिंगादेवीशुक्रेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

तत्रैव संस्थितं पश्येत्सूर्यं पापप्रणाशनम् ॥

तथा च पिंगलां देवीं पार्वतीरूपधारिणीम्

॥१॥

तृतीयायां विशेषेण ह्युपवासं करोति यः ॥

सर्वान्कामानवाप्नोति धनवान्पुत्रवान्भवेत्

॥२॥

तत्रैव संस्थितं पश्येच्छुक्रेश्वरमिति श्रुतम् ॥

तं दृष्ट्वा मानवो देवि मुक्तः स्यात्सर्वपातकैः

॥३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पिंगलादित्यपिंगादेवीशुक्रेश्वरमाहात्म्यवर्णनंनाम सप्तचत्वारिंश दुत्तरद्विशततमोऽध्यायः ॥ २४७ ॥