मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ४९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 49

तस्माच्छुक्रेश्वराद्गच्छेद्देवि लिंगं महाप्रभम्

ईश्वर उवाच

तस्माच्छुक्रेश्वराद्गच्छेद्देवि लिंगं महाप्रभम् ॥

शनैश्चरैश्वरंनाम महापातकनाशनम्

॥१॥

बुधेश्वरात्पश्चिमतो ह्यजादेव्यग्निगोचरे ॥

तस्या धनुः पंचकेन नातिदूरे व्यवस्थितम्

॥२॥

कल्पलिंगं महादेवि पूजितं देवदानवैः ॥

छायापुत्रेण संतप्तं तपः परमदुष्करम्

॥३॥

अनादि निधनो देवो येन लिंगेऽवतारितः ॥

प्राप्तवान्यो ग्रहेशत्वं भक्त्या शंभोः प्रसादतः

॥४॥

यस्य दृष्ट्या बिभेति स्म देवासुरगणो महान् ॥

न स कोऽप्यस्ति वै प्राणी ब्रह्मांडे सचराचरे

॥५॥

देवो वा दानवो वापि सौरिणा पीडितो न यः ॥

शनिवारेण संपूज्य भक्त्या सौरीश्वरं शिवम्

॥६॥

शमीपत्रैर्महादेवि तिलमाषगुडौदनैः ॥

संतर्प्य तु विधानेन दद्यात्कृष्णं वृषं द्विजे

॥७॥

स्तुत्वा स्तोत्रैश्च विविधैः पुराणश्रुतिसंभवैः ॥

अथ वैकेन देवेशः स्तोत्रेण परितोषितः

॥८॥

राज्ञा दशरथेनैव कृतेन तु बलीयसा ॥

स्तुत्यः सौरीश्वरो देवः सर्वपीडोपशांतये

॥९॥

देव्यु वाच

कथं दशरथो राजा चक्रे शानैश्चरीं स्तुतिम् ॥

कथं संतुष्टिमगमत्तस्य देवः शनैश्चरः

॥१०॥

ईश्वर उवाच

रघुवंशेऽति विख्यातो राजा दशरथो बली ॥

चक्रवर्ती स विज्ञेयः सप्तद्वीपाधिपः पुरा

॥११॥

कृत्तिकांते शनिं कृत्वा दैवज्ञैर्ज्ञापितो हि सः ॥

रोहिणीं भेद यित्वा तु शनिर्यास्यति सांप्रतम्

॥१२॥

उक्तं शकटभेदं तु सुरासुरभयंकरम् ॥

द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम्

॥१३॥

एतच्छ्रुत्वा मुनेर्वाक्यं मंत्रिभिः सहितो नृपः ॥

आकुलं तु जगद्दृष्ट्वा पौरजानपदादिकम्

॥१४॥

वदंति सततं लोका नियमेन समागताः ॥

देशाश्च नगर ग्रामा भयाक्रांताः समंततः ॥

मुनीन्वसिष्ठप्रमुखान्पप्रच्छ च स्वयं नृपः

॥१५॥

दशरथ उवाच

समाधानं किमत्रास्ते ब्रूहि मे द्विज सत्तम

॥१६॥

वसिष्ठ उवाच

प्राजापत्ये च नक्षत्रे तस्मिन्भिन्ने कुतः प्रजाः ॥

अयं योगो ह्यसाध्यस्तु ब्रह्मादींद्रादिभिः सुरैः

॥१७॥

तदा संचिंत्य मनसा साहसं परमं महत् ॥

समादाय धनुर्दिव्यं दिव्यैरस्त्रैः समन्वितम्

॥१८॥

रथमारुह्य वेगेन गतो नक्षत्रमंडलम् ॥

रथं तु कांचनं दिव्यं मणिरत्नविभूषितम्

॥१९॥

ध्वजैश्च चामरैश्छत्रैः किंकिणैरथ शोभितम् ॥

हंसवर्णहयैर्युक्तं महाकेतुसमन्वितम्

॥२०॥

दीप्यमानो महारत्नैः किरीटमुकुटोज्ज्वलः ॥

बभ्राज स तदाकाशे द्वितीय इव भास्करः

॥२१॥

आकर्णं चापमापूर्य संहारास्त्रं नियोज्य च ॥

कृत्तिकांते शनिं ज्ञात्वा प्रविश्य किल रोहिणीम्

॥२२॥

दृष्ट्वा दशरथोऽस्याग्रे तस्थौ सभ्रुकुटीमुखः ॥

संहारास्त्रं शनिर्दृष्ट्वा सुरासुरविमर्द्दनम्

॥२३॥

हसित्वा तद्रयात्सौरिरिदं वचनमब्रवीत् ॥

पौरुषं तव राजेंद्र परं रिपुभयंकरम्

॥२४॥

देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥

मया विलोकिताः सर्वे भयं चाशु व्रजंति ते

॥२५॥

तुष्टोहं तव राजेंद्र तपसा पौरुषेण च ॥

वरं ब्रूहि प्रदास्यामि मनसा यदभीप्सितम्

॥२६॥

दशरथ उवाच

रोहिणीं भेदयित्वा तु न गंतव्यं त्वया शने ॥

सरितः सागरा यावद्यावच्चद्रार्कमेदिनी

॥२७॥

याचितं ते मया सौरे नान्य मिच्छामि ते वरम् ॥

एवमुक्तः शनिः प्रादाद्वरं तस्मै तु शाश्वतम्

॥२८॥

प्राप्यैवं तु वरं राजा कृतकृत्योऽभवत्तदा ॥

पुनरेवाब्रवीत्सौरिर्वरं वरय सुव्रत

॥२९॥

प्रार्थयामास हृष्टात्मा वरमेवं शनेस्तदा ॥

न भेत्तव्यं च शकटं त्वया भास्करनंदन

॥३०॥

द्वादशाब्दं तु दुर्भिक्षं न कर्तव्यं कदाचन ॥

कीर्तिरेषा मदीया च त्रैलोक्ये विचरिष्यति

॥३१॥

ईश्वर उवाच

वरद्वयं ततः प्राप्य हृष्टरोमा स पार्थिवः ॥

रथोपरि धनुर्मुक्त्वा भूत्वा चैव कृतांजलिः

॥३२॥

ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम् ॥

राजा दशरथः स्तोत्रं सौरेरिदमथाकरोत्

॥३३॥

राजोवाच

नमो नीलमयूखाय नीलोत्पलनिभाय च ॥

नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च

॥३४॥

नमो विशालनेत्राय शुष्कोदरभयान क ॥

नमः परुषगात्राय स्थूलरोमाय वै नमः

॥३५॥

नमो नित्यं क्षुधार्त्ताय नित्यतप्ताय वै नमः ॥

नमः कालाग्निरूपाय कृतांतक नमोस्तु ते

॥३६॥

नमो दीर्घाय शुष्काय कालदृष्टे नमोऽस्तु ते ॥

नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः

॥३७॥

नमो घोराय रौद्राय भीषणाय करा लिने ॥

नमस्ते सर्वभक्षाय वलीमुख नमोऽस्तु ते

॥३८॥

सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदायक ॥

अधोदृष्टे नमस्तुभ्यं वपुःश्याम नमोऽस्तु ते

॥३९॥

नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोनमः ॥

नमस्त उग्ररूपाय चण्डतेजाय ते नमः

॥४०॥

तपसा दग्धदेहाय नित्यं योगरताय च ॥

नमस्ते ज्ञाननेत्राय कश्यपात्मजसूनवे

॥४१॥

तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥

देवासुरमनुष्याश्च पशुपक्षिसरीसृपाः

॥४२॥

त्वया विलोकिताः सौरे दैन्यमाशु व्रजंति च ॥

ब्रह्मा शक्रो यमश्चैव ऋषयः सप्ततारकाः

॥४३॥

राज्यभ्रष्टाश्च ते सर्वे तव दृष्ट्या विलोकिताः ॥

देशाश्च नगरग्रामा द्वीपाश्चैवाद्रयस्तथा

॥४४॥

रौद्रदृष्ट्या तु ये दृष्टाः क्षयं गच्छंति तत्क्षणात्

॥४५॥

प्रसादं कुरु मे सौरे वरार्थेऽहं तवाश्रितः सौरे क्षमस्वापराधं सर्वभूतहिताय च

॥४६॥

ईश्वर उवाच

एवं स्तुतस्तदा सौरी राज्ञा दशरथेन च ॥

महराजः शनिर्वाक्यं हृष्टरो माऽब्रवीदिदम्

॥४७॥

शनिरुवाच

तुष्टोऽहं तव राजेन्द्र स्तवेनानेन सुव्रत ॥

वरं ब्रूहि प्रदास्यामि स्वेच्छया रघुनंदन

॥४८॥

दशरथ उवाच

अद्यप्रभृति पिंगाक्ष पीडा कार्या न कस्यचित् ॥

देवासुरमनुष्याणां पशुपक्षिसरीसृपाम्

॥४९॥

शनिरुवाच

ग्रहाणां दुर्ग्रहो ज्ञेयो ग्रहपीडां करोम्यहम् ॥

अदेयं प्रार्थितं राजन्किंचिद्युक्तं ददाम्यहम्

॥५०॥

त्वया प्रोक्तं मम स्तोत्रं ये पठि ष्यंति मानवाः ॥

पुरुषाश्च स्त्रियो वापि मद्भयेनोपपीडिताः

॥५१॥

देवासुरमनुष्यास्तु सिद्धविद्याधरोरगाः ॥

मृत्युस्थाने स्थितो वापि जन्मप्रांतगतस्तथा

॥५२॥

एककालं द्विकालं वा तेषां श्रेयो ददाम्यहम् ॥

पूजयित्वा जपेत्स्तोत्रं भूत्वा चैव कृतांजलिः

॥५३॥

तस्य पीडां न चैवाहमिह कुर्यां कदाचन ॥

जन्मस्थाने स्थितो वापि मृत्युस्थाने स्थितोऽपि च

॥५४॥

जन्मऋक्षे च लग्ने च दशास्वंतर्दशासु च ॥

रक्षामि सततं तस्य पीडां चान्यग्रहस्य च

॥५५॥

अनेनैव प्रकारेण र्पाडामुक्तस्त्वसौ भवेत् ॥

एतत्प्रोक्तं मया दत्तं वरं च रघुनंदन

॥५६॥

ईश्वर उवाच

वरद्वयं च संप्राप्य राजा दशरथः पुरा ॥

मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम्

॥५७॥

शनिं स्तुत्वाऽभ्यनुज्ञातो रथमारुह्य वीर्यवान् ॥

स्वस्थानं गतवान्राजा पूज्यमानो दिवौकसैः

॥५८॥

य इदं प्रातरुत्थाय सौरिवारे पठेन्नरः ॥

सर्वग्रहोद्भवा पीडा न भवेद्भुवि तस्य तु

॥५९॥

शनैश्चरं स्मरेद्देवं नित्यं भक्तिसमन्वितः ॥

पूजयित्वा पठेत्स्तोत्रं तस्य तुष्यति भास्करिः

॥६०॥

इति ते कथितं देवि माहात्म्यं शनिदैवतम् ॥

सर्वपापोपशमनं सर्वकामफलप्रदम्

॥६१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमं प्रभासक्षेत्रमाहात्म्ये शनैश्चरेश्वरमाहात्म्यवर्णनंनामैकोनपञ्चाशोऽध्यायः ॥ ४९ ॥