मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 35

सरस्वत्यब्धिसमागमाग्नितीर्थमाहात्म्यवर्णनम्

देव्युवाच

भगवन्भार्गवे वंशे यस्त्वौर्वः कथितस्त्वया ॥

वैवस्वतेंऽतरे चास्मिंस्तस्योत्पत्तिं वद प्रभो

॥१॥

ईश्वर उवाच

ब्राह्मणा निहता ये तु क्षत्रियैर्वित्तकारणात् ॥

क्षयं नीतास्तु ते सर्वे सपुत्राश्च सगर्भतः

॥२॥

म्रियमाणेषु सर्वेषु एका स्त्री समतिष्ठत ॥

तया तु रक्षितो गर्भ ऊर्वोर्देशे निधाय च

॥३॥

अन्यासां चैव नारीणां सर्वासामपि भामिनि ॥

गर्भानि पातितास्तैस्तु द्रव्यार्थं क्षत्रियाधमैः

॥४॥

कालांतरे ततो भित्त्वा कुरुदेशं महाप्रभः ॥

निर्गतोत्तंभितशिरा ज्वलदास्योतिभीषणः

॥५॥

तद्वैरं हृदि चाधाय ददाह वसुधातलम् ॥

उत्पाद्य वह्निं तपसा रौद्रमौर्वं जलाशनम्

॥६॥

तमिन्द्रः प्लावयामास वृष्ट्यौघैर्वरवर्णिनि ॥

न शशाक यदा नेतुं तदा स यतवाक्स्थितः

॥७॥

ततो देवाः सगंधर्वा ब्रह्माणं शरणं गताः ॥

अभवन्भयसंत्रस्ताः सर्वे प्रांजलयः स्थिताः

॥८॥

देवा ऊचुः

भगवन्भार्गवे वंशे जातः कोऽपि महाद्युतिः ॥

अग्निरूपेण सर्वं स ददाह वसुधातलम् ॥

कृतो यत्नः पुराऽस्माभिस्तद्विनाशाय सत्तम ॥

जलेन वृद्धिमायाति ततो नो भयमागतम्

॥१०॥

विनष्टे भूतले देव अग्निष्टोमादिकाः क्रियाः ॥

उच्छिद्यते ततोऽस्माकं नाशो नूनं भविष्यति

॥११॥

तस्माद्यत्नं कुरु विभो त्रैलोक्यहितकाम्यया

॥१२॥

ततो ब्रह्मा सुरैः सार्द्धं भार्गवैश्च महर्षिभिः ॥

आगत्य चाब्रवीदौर्वं किमर्थं दहसि क्षितिम्

॥१३॥

विरामः क्रियतां सद्यो ममार्थं च द्विजोत्तम

॥१४॥

और्व उवाच

एष एव निवृत्तोऽहं तव वाक्येन सत्तम ॥

एष वह्निर्मयोत्सृष्टः स विभो तव शासनात्

॥१५॥

यथा गच्छेत्समुद्रांतं तथा नीतिर्विधीय ताम्

॥१६॥

समाहूय ततो देवीं स्वां सुतां पद्मसंभवः ॥

उवाच पुत्रि गच्छ त्वं गृहीत्वाग्निं महोदधिम् ॥

मद्वाक्यं नान्यथा कार्यं गच्छ शीघ्रं महाप्रभे

॥१७॥

सरस्वत्युवाच

एषास्मि प्रस्थिता देव तव वाक्यादसंशयम् ॥

इत्युक्ते साधु साध्वीति ब्रह्मणा समुदाहृता

॥१८॥

ततोभिमंत्रितं वह्निं क्षिप्त्वा कुंभे हिरण्मये ॥

प्रायच्छत सरस्वत्यै स्वयं ब्रह्मा पितामहः ॥

आशिषो विविधा दत्त्वा प्रोवाचेदं पुनः पुनः

॥१९॥

गच्छ पुत्रि न संतापस्त्वया कार्यः कथंचन ॥

अरिष्टं व्रज पंथानं मा संतु परिपन्थिनः

॥२०॥

ईश्वर उवाच

एवमुक्ता तदा तेन ब्रह्मणा च सरस्वती ॥

हिमवंतं गिरिं प्राप्य पिप्पलादाश्रमात्तदा

॥२१॥

उद्भूता सा तदा देवी अधस्ताद्वृक्षमूलतः ॥

तत्कोटर कुटीकोटिप्रविष्टानां द्विजन्मनाम्

॥२२॥

श्रूयन्ते वेदनिर्घोषा सरसारक्तचेतसाम् ॥

विष्णुरास्ते तत्र देवो देवानां प्रवरो गुरुः

॥२३॥

तस्मात्स्थानात्ततो देवी प्रतीच्यभिमुखं ययौ ॥

अन्तर्द्धानेन सा प्राप्ता केदारं हिममध्यगम्

॥२४॥

तत्संप्लाव्य गिरेः शृंगं केदारस्य पुरः स्थिता ॥

तेनाग्निना करस्थेन दह्यमाना सरस्वती

॥२५॥

भूमिं विदार्य तस्याधः प्रविष्टा गजगामिनी ॥

तदंतर्द्धानमार्गेण प्रवृत्ता पश्चिमामुखी

॥२६॥

पापभूमिमतिक्रम्य भूमिं भित्त्वा विनि(?)गता ॥

तत्र कूपः समभवन्नाम्ना गन्धर्वसंज्ञितः

॥२७॥

तस्मात्कूपात्पुनर्दृश्या सा बभूव महानदी ॥

मतिः स्मृतिस्तथा प्रज्ञा मेधा बुद्धिर्गिराधरा

॥२८॥

उपासिकाः सरस्वत्याः षडेताः प्रस्थितास्तदा ॥

पुनः प्रवृत्ता सा तस्मादुद्भेदात्पश्चिमामुखी

॥२९॥

भूतीश्वरं समायाता सिद्धो यत्र महामुनिः ॥

भूतीश्वरे समीपस्थं तत्र प्राप्ता मनोरमम्

॥३०॥

तस्य दक्षिणदिक्संस्थं रुद्रकोट्युपलक्षितम् ॥

श्रीकंठ देशं विख्यातं गता सर्वौषधीयुतम्

॥३१॥

तस्मात्पुण्यतमाद्देशाच्छ्रीकण्ठात्सा मनस्विनी ॥

संप्राप्ता वह्निना सार्द्धं कुरुक्षेत्रं सरस्वती

॥३२॥

पुनस्तस्मात्कुरुक्षेत्राद्विराटनगरस्य सा ॥

समुद्भूता समीपस्था अन्तर्द्धानान्मनोरमा ॥

गोपायनो गिरिर्यत्र तत्र सा पुनरुद्गता

॥३३॥

गोपायिता केशवेन यत्र ते पाण्डुनन्दनाः ॥

कुर्वंतः स्वानि कर्माणि न कैश्चिदुपलक्षिता

॥३४॥

तत्र कुंडे स्थिता देवी महापातकनाशिनी ॥

पुन र्गोपायनाद्देवी क्षेत्रं प्राप्तातिशोभनम्

॥३५॥

खर्जुरीवनमापन्ना नन्दानाम्नीति तत्र सा ॥

सरस्वती पुनस्तस्माद्वनात्खर्जूरसंज्ञितात्

॥३६॥

मेरुपादं समासाद्य मार्कंडाश्रममागता ॥

यत्र मार्कंडकं तीर्थं मेरुपादे समाश्रितम्

॥३७॥

सरस्वती पुनस्तस्मादर्बुदारण्यमाश्रिता ॥

गता वटवनं रम्यं मार्कंडेयाश्रमाच्छुभात्

॥३८॥

तपस्तप्तं पुरा यत्र वसिष्ठेन समाश्रितात् ॥

तस्माद्वटवनात्पुण्यादुदुम्बरवनं गता ॥

मेरुपादे च तत्रैव तण्डिर्यत्रा तपत्तपः

॥३९॥

ऊदुंबरवनात्तस्मात्पुनर्देवी सरस्वती ॥

अन्तर्द्धानेन शिखरमन्यत्प्राप्ता महानदी

॥४०॥

मेरुपादं तु सुमहत्सुरसिद्धनिषेवितम् ॥

भिन्नांजनचयाकारं गोलांगूलमिति स्मृतम्

॥४१॥

स्थानं मनोरमं तस्मादुद्गता सा सुमध्यमा ॥

वंशस्तंबात्सुविपुला प्रवृत्ता दक्षिणामुखी

॥४२॥

तत्रोद्गमवटस्तस्यास्तत्समाख्यो व्यवस्थितः ॥

ततः प्रभृति सा देवी सुप्रभं प्रकटा स्थिता

॥४३॥

अंतर्द्धानं परित्यज्य प्राणिनामनुकम्पया ॥

तस्यास्तटेषु रम्येषु संति तीर्थानि कोटिशः

॥४४॥

तेषु तीर्थेषु सर्वेषु धर्महेतुः सरस्वती ॥

रुद्रावतारमार्गेऽस्मिन्प्रवरं प्रथमं स्मृतम्

॥४५॥

तरत्तरंगनामाढ्यं काकतीर्थं महाप्रभम् ॥

तत्र तीर्थं पुनस्त्वन्यत्तीर्थं धारेश्वरं स्मृतम्

॥४६॥

धारेश्वरात्पुनश्चान्यद्गंगोद्भेदमिति स्मृतम् ॥

सारस्वतं तथा गांगं यत्रैकं संस्थितं जलम् ॥

तस्मादन्यत्परं तीर्थं पुंडरीकं ततः परम्

॥४७॥

मातृतीर्थं महापुण्यं सर्वातंकहरं परम् ॥

मातृतीर्थात्पुनस्तस्मान्नातिदूरे व्यवस्थितम्

॥४८॥

तीर्थं त्वनरकंनाम नरकार्ति भयापहम् ॥

ततस्तस्मादनरकात्तीर्थमन्यत्पुनः स्थितम्

॥४९॥

संगमेश्वरनामाढ्यं प्रसिद्धं तन्महीतले ॥

ततस्तस्मात्पुनश्चान्यत्तीर्थं कोटीश्वराह्वयम्

॥५०॥

ततस्तस्मान्महादेवि शंभुकुण्डेश्वरं स्मृतम् ॥

तीर्थे सरस्वतीतीरे तस्मिन्सिद्धेश्वरं स्मृतम्

॥५१॥

सिद्धेश्वरात्पुनस्तस्मात्प्रवृत्ता पश्चिमामुखी ॥

पश्चिमं सागरं गंतुं सखीं स्मृत्वा रुरोद सा

॥५२॥

स्थित्वा पूर्वमुखा देवी हा गंगेति विना त्वया ॥

एकाकिनी मंदभाग्या क्व गमिष्याम्यबांधवा

॥५३॥

तां विज्ञाय ततो गंगा रुदतीं शोककर्शिताम् ॥

शीघ्रं स्वर्गात्समायाता तीर्थानां कोटिभिः सह

॥५४॥

ततो दुःखं परित्यज्य तत्र प्राची सरस्वती ॥

सर्वदेवगुणैयुक्ता एवं तत्र स्थिताऽभवत्

॥५५॥

तत्र सिद्धवटंनाम तीर्थं पैतामहं स्मृतम् ॥

वटेश्वरस्य पुरतः सर्वपापक्षयंकरम्

॥५६॥

त्रिकालं यत्र रुद्रस्तु समागत्य व्यवस्थितः ॥

तन्महालयमित्युक्तं स्थानं तस्य महात्मनः

॥५७॥

पिंडतारकमित्येतत्प्राचीनं तीर्थमुत्तमम् ॥

कुम्भकुक्षिगिरिस्थं तत्पित्र्ये कर्मणि सिद्धिदम्

॥५८॥

प्राचीनेश्वरदेवस्य पुरोभूतं प्रति ष्ठितम् ॥

प्राची सरस्वती यत्र तत्र किं मृग्यते परम्

॥५९॥

निवृत्ते भारते युद्धे तत्र तीर्थे किरीटिना ॥

प्रायश्चित्तं पुरा चीर्णं विष्णुना प्रेरितात्मना

॥६०॥

तेन तस्माद्विनिर्मुक्तः पातकात्पूर्वसंचितात् ॥

नरतीर्थं ततः ख्यातं तत्र पापभयापहम्

॥६१॥

नरतीर्थादन्यतीर्थं पुंडरीकमिति स्मृतम् ॥

अर्जुनेन सहागत्य यत्र स्नातो हरिः प्रिये

॥६२॥

प्राचीनेशात्परं तीर्थं वालखिल्येश्वरं महत् ॥

तत्र तस्मान्महातीर्थात्तीर्थमन्यन्महोदयम्

॥६३॥

गंगासमागमंनाम तीर्थमन्यन्महोदयम् ॥

तत्रालोक्य पुनर्देवीं दीनास्यां दीनमानसाम्

॥६४॥

ब्रह्मासृजत्सखीं तस्याः कपिलां विपुलेक्षणाम् ॥

हरिणीं हरिरप्याशु वज्रिणीमपि देवराट् ॥

न्यंकुं विनोदनार्थं च सरस्वत्या ददौ हरः

॥६५॥

ततः प्रहृष्टा सा देवी देवादेशात्सरस्वती ॥

तस्माद्गन्तुं समारब्धा प्राचीना पापनाशिनी

॥६६॥

ईश्वर उवाच

दक्षिणां दिशमास्थाय पुनः पश्चान्मुखी तदा ॥

सरस्वती महादेवी वडवानलधारिणी ॥

तदुत्तरे तटे तीर्थमेकद्वारमिति स्मृतम्

॥६७॥

एकद्वारेण यत्सेना स्वर्गं प्राप्ता ततो वरात् ॥

तस्मात्तीर्थात्पुनश्चान्यत्तीर्थं यत्र गुहेश्वरः

॥६८॥

गुहेन स्थापितः पूर्वं यत्र देवो महेश्वरः ॥

गुहेश्वरान्नातिदूरे वटेश्वरमिति स्मृतम्

॥६९॥

दिव्यं सरस्वतीतीरे व्यासेनाराधितं पुरा ॥

आमर्द्दकी नदी यत्र सरस्वत्या सहैकताम्

॥७०॥

संप्राप्ता तन्महातीर्थं फलदं सर्वदेहिनाम् ॥

आमर्दकी संगमं तं नापुण्यो वेद कश्चन ॥

संगमेश्वरनामेति तत्र लिंगं प्रतिष्ठितम्

॥७१॥

मुण्डीश्वरेति च तथा प्रसिद्धिमगमत्क्षितौ ॥

मुंडीश्वरसमीपस्थं सरस्वत्यां महोदयम्

॥७२॥

नाम्ना यत्प्राङ्मुखं तीर्थं सरस्वत्यास्तटे स्थितम् ॥

मांडव्येश्वरनाम्ना वै यत्रेशः संप्रतिष्ठितः

॥७३॥

पीलुकर्णिकसंज्ञं तु तीर्थमन्यत्पुनस्ततः ॥

सरस्वतीतीरगतमृषिणा सेवितं महत्

॥७४॥

तस्मादन्यत्सरस्वत्यां तीर्थं द्वारवती स्मृतम् ॥

तीर्थानां प्रवरं देवि यत्र संनिहितो हरिः

॥७५॥

ततस्तस्य समीपस्थं तीर्थं गोवत्ससंज्ञितम् ॥

यत्रावतीर्य गोवत्सस्वरूपेणांबिकापतिः

॥७६॥

स्वयं भूलिंगरूपेण संस्थितस्तेजसां निधिः ॥

गोवत्सान्नैर्ऋते भागे दृश्यते लोहयष्टिका

॥७७॥

स्वयंभूलिंगरूपेण रुद्रस्तत्र स्वयं स्थितः ॥

एकविंशति वारस्य भक्त्या पिंडस्य यत्फलम्

॥७८॥

गंगायां प्राप्यते पुंसां श्राद्धेनैकेन तत्र तत् ॥

ततस्तस्मान्महातीर्थाद्बालक्रीडनकी यथा

॥७९॥

सखीभिः सहिता तत्र क्रीडताऽसौ यथेच्छया ॥

आनुलोम्यविलोम्येन दक्षिणेनोत्तरेण च

॥८०॥

रुल्लं प्राप्य पुनर्देवी समुद्भूता मनोरमा ॥

रुल्लं नाम पुरं यत्र सृष्टं देवेन शंभुना

॥८१॥

सह देवैस्तु पार्वत्या धारायंत्रप्रयोगकैः ॥

एकं वर्षसहस्रं तु शंभुना तत्र रुल्लितम्

॥८२॥

रुल्लं तत्र ह्रदं नाम सरस्वत्यां महोदयम् ॥

साक्षात्तत्र महादेव आनंदेश्वरसंज्ञितः

॥८३॥

पश्चिमेन स्थितं तत्र शम्भोरायतनस्य तु ॥

स मेरोर्दक्षिणे पादे नखस्तु परिकीर्तितः

॥८४॥

पश्यंति ये नराः सम्यक्तेऽपि पापविवर्जिताः ॥

अश्वमेधसहस्रस्य प्राप्नुवंति फलं ध्रुवम्

॥८५॥

परतस्तस्य कूष्मांडमुनेस्तत्राश्रमं महत् ॥

कूष्मांडेश्वरसंज्ञं तु तीर्थं त्रैलोक्यविश्रुतम्

॥८६॥

कोल्लादेवी स्थिता तत्र सर्वपापभयापहा ॥

अन्तर्द्धानेन तां कोल्लां संप्राप्ता सा महानदी

॥८७॥

ततोऽप्यंतर्हिता भूत्वा संप्राप्ता तु मनोरमम् ॥

सानुं मदनसंज्ञं तु क्षेत्रं सिद्धनिषेवितम्

॥८८॥

ततोऽप्यंतर्हिता भूत्वा पुनः प्राप्ता हिमाचलम् ॥

खादिरामोदनामानं सर्वर्तुकुसुमोज्ज्वलम्

॥८९॥

तत्रारुह्य विलोक्याथ ददर्श सुमनोरमम ॥

क्षारोदं पश्चिमाशास्थं घनवृंदमिवोन्नतम्

॥९०॥

एवंविधं च तं तत्र सा विलोक्य महाप्रभा ॥

हर्षात्पंचानना भूत्वा देवकार्यार्थमुद्यता

॥९१॥

हरिणी वज्रिणी न्यंकुः कपिला च सरस्वती ॥

पंचस्रोताः स्थिता तत्र मुनिनोक्ता सरस्वती

॥९२॥

श्रमापनोदं कुर्वाणा मुनीनां यत्र संस्थिता ॥

तत्तत्पादकमित्युक्तं तीर्थं तीर्थार्थिनां नृणाम् ॥

सर्वेषां पातकानां च शोधनं तद्वरानने

॥९३॥

खादिरामोदमासाद्य तत्रस्था वीक्ष्य सागरम् ॥

गन्तुं प्रवृत्ता तं वह्निमादाय सुरसुन्दरि

॥९४॥

दग्ध्वा कृतस्मरं देवी पुनरादाय वाडवम् ॥

समुद्रस्य समीपस्था स्थिता हृष्टतनूरुहा

॥९५॥

ततः प्रविष्टा सा देवी अगाधे लवणांभसि ॥

वाडवं वह्निमादाय जलमध्ये व्यसर्जयत्

॥९६॥

ततस्तस्याः पुनः प्रीतः स्वयमेव हुताशनः ॥

तद्दृष्ट्वा दुष्करं कर्म वचनं चेदमब्रवीत्

॥९७॥

परितुष्टोऽस्मि ते भद्रे वरं वरय सुव्रते ॥

तत्ते दास्याम्यहं प्रीतो यद्यपि स्यात्सुदुर्लभम्

॥९८॥

ईश्वर उवाच

प्रगृह्य वलयं हस्तादिदं वचनमब्रवीत् ॥

इदं मे वलयं वह्ने वक्त्रे धार्यं सदा त्वया

॥९९॥

अनेन शक्यते यावत्तावत्तोयं समाहर ॥

न त्वया शोषणीयोऽयं समुदः सरितांपतिः

॥१००॥

बाढमित्येव चोक्त्वा स प्रविष्टो निधिमंभसाम् ॥

एवमेषा महादेवि प्रभासे तु सरस्वती ॥

गृहीत्वा वाडवं प्राप्ता तुष्ट्यर्थं च मनीषिणाम्

॥१०१॥

सा विश्रांता कुरुक्षेत्रे भद्रावर्ते च भामिनि ॥

पुष्करे श्रीकला देवी प्रभासे च महानदी

॥१०२॥

देवमातेति सा तत्र संस्थिता लवणोदधौ ॥

अस्मिन्मन्वंतरे देवि आदौ त्रेतायुगे पुरा

॥१०३॥

इति वृत्तं सरस्वत्या वाडवाग्नेस्तथाभवत् ॥

मन्वन्तरे व्यतीतेऽस्मिन्भविताऽन्यस्तु वाडवः

॥१०४॥

ज्वालामुखेति नाम्ना वै रुद्रक्रोधाद्भविष्यति ॥

सरस्वत्यास्तथा नाम ख्यातिं ब्राह्मीति यास्यति

॥१०५॥

सरस्वतीति वै लोके वर्तते नाम सांप्रतम् ॥

अतीतं नाम यत्तस्याः कमंडलुभवेति च ॥

रत्नाकरेति सामुद्रं सत्यं नामांतरं पुरा

॥१०६॥

अस्मिन्मन्वंतरे देवि सागरेति प्रकीर्तितम् ॥

क्षारोदेति भविष्यं तु नाम देवि प्रकीर्तितम्

॥१०७॥

एवं जानाति यः कश्चित्स तीर्थफलमश्नुते ॥

स्वर्गनिःश्रेणिसंभूता प्रभासे तु सरस्वती

॥१०८॥

नापुण्यवद्भिः संप्राप्तुं पुंभिः शक्या महानदी ॥

प्राची सरस्वती देवि सर्वत्र च सुदुर्लभा ॥

विशेषेण कुरुक्षेत्रे प्रभासे पुष्करे तथा

॥१०९॥

एवंप्रभावा सा देवी वडवानल धारिणी ॥

अग्नितीर्थसमीपस्था स्थिता देवी सरस्वती

॥११०॥

तामादौ पूजयेद्यस्तु स तीर्थफलमश्नुते ॥

सागरं यच्च तत्तीर्थं पापघ्नं पुण्यवर्द्धनम्

॥१११॥

दर्शनादेव तस्यैव महाक्रतुफलं लभेत् ॥

अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः

॥११२॥

दृष्टमात्राः पुनंत्येते तस्मात्पश्येद्धि भावितः ॥

अग्नितीर्थे नरः स्नात्वा पावके प्रक्षिपेत्ततः ॥

गुग्गुलं भारसहितं सोग्निलोके महीयते

॥११३॥

एवं संक्षेपतः प्रोक्तो ह्यग्नि तीर्थमहोदयः ॥

सरस्वत्याश्च माहात्म्यं सर्वपातकनाशनम्

॥११४॥

स्नात्वाग्नितीर्थे विधिवत्कंकणं प्रक्षिपेततः ॥

सुवर्णस्य महादेवि यथावित्तानुसारतः

॥११५॥

ततः सरस्वतीं पूज्य कपर्दिनमथार्चयेत्

॥११६॥

ततः केदारनामानं भीमेश्वरमतःपरम् ॥

भैरवेश्वरनामानं चण्डीश्वरमतः परम्

॥११७॥

ततः सोमेश्वरं देवं पूजयेद्विधिवन्नरः ॥

नवग्रहेश्वरानिष्ट्वा रुद्रैकादशकं तथा

॥११८॥

ततः संपूजयेद्देवं ब्रह्माणं बालरूपिणम् ॥

एवं रौद्री समाख्याता यात्रा पातकनाशिनी

॥११९॥

माहात्म्यमखिलं तस्या यो जानाति नरोत्तमः ॥

निवसन्क्षेत्रमध्ये तु स तीर्थफलमश्नुते

॥१२॥

एवं कृत्वा ततो गच्छेन्महादेवीं सरस्वतीम्

॥१२१॥

सरस्वतीवाससमा कुतो गुणाः सरस्वतीवाससमा कुतो रतिः ॥

सरस्वतीं प्राप्य दिवं गता नराः पुनः स्मरिष्यंति नदीं सरस्वतीम्

॥१२२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्र माहात्म्ये सरस्वत्यब्धिसमागमाग्नितीर्थमाहात्म्यवर्णनंनाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥