त्रिसंगममाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि मिश्रतीर्थमनुत्तमम् ॥
त्रिसंगमेति विख्यातं सौरं तीर्थमनुत्तमम्
॥१॥सरस्वती हिरण्या च समुद्रश्चैव भामिनि ॥
त्रयाणां संगमो यत्र दुष्प्राप्यो दैवतैरपि
॥२॥सर्वेषां तत्र तीर्थानां प्रधानं तीर्थमुत्तमम् ॥
सूर्यपर्वणि संप्राप्ते कुरुक्षेत्राद्विशिष्यते
॥३॥स्नानं दानं जपस्तत्र सर्वं कोटिगुणं भवेत्
॥४॥मंकीश्वरान्महादेवि यावल्लिंगं कृतस्मरम् ॥
एतस्मिन्नन्तरे देवि तीर्थानां दशकोटयः
॥५॥कृमिकीटपतंगाश्च श्वपचा वा नराधमाः ॥
सोऽपि स्वर्गमवाप्नोति किं पुनर्भावितात्मवान्
॥६॥तत्र पीतानि वस्त्राणि काञ्चनं सुरभिस्तथा ॥
ब्राह्मणाय प्रदातव्या सम्यग्यात्राफलेप्सुभिः
॥७॥कृष्णपक्षे चतुर्दश्यां स्नात्वा यस्तर्पयेत्पितॄन् ॥
तर्पिताः पितरस्तेन यावच्चन्द्रार्कतारकम्
॥८॥एतत्त्रिसंगमं देवि महापातकनाशनम् ॥
दुर्लभं त्रिषु लोकेषु वैशाख्यां तु विशेषतः
॥९॥वृषो त्सर्गो विशेषेण तत्र कार्यो नरोत्तमैः ॥
सर्वपापविनाशाय पितॄणां प्रीतये प्रिये
॥१०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये त्रिसंगममाहात्म्यवर्णनंनाम त्र्यशीत्युत्तरशततमोऽध्यायः ॥ १८३ ॥