लकुलीशमाहात्म्यवर्णनम्
ईश्वर उवाच
तस्यैव पूर्वदिग्भागे लकुलीशस्तु मूर्तिमान् ॥
स्वयं तिष्ठति देवेशि कृत्वा घोरं तपः पुरा
॥१॥संस्थितः पापशमने तत्र स्थाने स्थलोपरि ॥
कार्तिक्यां कृत्तिकायोगे यस्तं पूजयते नरः
॥२॥स पूज्यते महादेवि सर्वैरपि सुरासुरैः
॥३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये लकुलीशमाहात्म्यवर्णनंनाम सप्तसप्तत्युत्तरशततमो ऽध्यायः ॥ १७७ ॥