मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २०३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 203

मंकीश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि मंकीश्वर महालयम् ॥

रामेशादुत्तरे भागे देवमातुः समीपगम्

॥१॥

अर्कस्थलात्ततो याम्ये पूर्वतश्च कृतस्मरात् ॥

लिंगं महाप्रभावं तु मंकिना स्थापितं पुरा

॥२॥

तं दृष्ट्वा मानवः सम्यगश्वमेधफलं लभेत्

॥३॥

देव्युवाच

कोऽसौ मंकिर्महादेव कथं लिंगं प्रतिष्ठितम् ॥

किं प्रभावं च तल्लिंगमेतन्मे वद विस्तरात्

॥४॥

ईश्वर उवाच

मंकिर्नामाभवत्पूर्वं कुब्जकायो द्विजोत्तमः ॥

प्रभासं क्षेत्रमासाद्यतपस्तेपे महत्तमम्

॥५॥

प्रतिष्ठाप्य महादेवं शिवभक्तिपरायणः ॥

न तुतोष हरस्तस्य वहुवर्षगणार्चितः

॥६॥

तस्यैवं तप्यमानस्य सिद्धिं प्राप्ता ह्यनेकशः ॥

तत्राराध्य महादेवं स्वर्गलोकमितो गताः

॥७॥

ततो दुःखं समभवन्मंकेस्तत्र वरानने ॥

कस्मान्मे भगवांस्तुष्टिं न गच्छति महेश्वरः

॥८॥

ततस्तीव्ररतिं चक्रे कृत्वा तीव्रनिवर्तनम् ॥

एवं वृद्धत्वमापन्नो जपध्यानपरायणः

॥९॥

तस्य तुष्टो महादेवो वयसोऽन्ते वरं ददौ ॥

परितुष्टोऽस्मि ते मंके ब्रूहि किं करवाणि ते

॥१०॥

मंकिरुवाच

किं वरेण सुरश्रेष्ठ मम वृद्धस्य सांप्रतम् ॥

किञ्चिन्मे परमं दुःखं स्थितस्यात्र परं प्रभो

॥११॥

शिव उवाच

शृणु यत्कारणं तत्र तेषां तव तपस्विनाम् ॥

व्रतचर्याप्तये विप्राः पूजयन्त्यधिकं हि ते

॥१२॥

ते पुष्पाणि समानीय नानावर्णानि सर्वशः ॥

वृक्षाणामतिगंधीनि न तेषां हर्षकारणम्

॥१३॥

त्वं पुनः कुब्जरूपश्च यज्ञपूजापरायणः ॥

न च प्राप्नोषि वृक्षाणां शाखाग्राण्यतियत्नवान्

॥१४॥

एकेनापि प्रदत्तेन पुष्पेण द्विजसत्तम ॥

भक्त्या शिरसि लिंगस्य लभ्यते याज्ञिकं फलम्

॥१५॥

लिंगस्य दक्षिणे ब्रह्मा स्वयमेव व्यवस्थितः ॥

वामे च भगवान्विष्णुर्मध्येहं वै प्रतिष्ठितः

॥१६॥

त्रयोऽपि पूजितास्तेन येन लिंगं प्रपूजितम्

॥१७॥

बिल्वपत्रं शमीपत्रं करवीरं च मालतीम् ॥

उन्मत्तकं चम्पकं च सद्यः प्रीतिकरं भवेत्

॥१८॥

चंपकाशोक कह्लारैः करवीरैस्तथा मम ॥

पूजेष्टा द्विजशार्दूल ये चान्ये वहुगंधिनः ॥

एतैर्हि पूजितो नित्यं शीघ्रं तुष्टिं प्रयाम्यहम्

॥१९॥

ब्राह्मण उवाच

यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥

इहागत्य नरः स्नात्वा यो जलेनापि सिञ्चति

॥२०॥

लिंगमेतद्धि सर्वासां पूजानां फलमाप्नुयात् ॥

अद्यप्रभृति ये वृक्षा दैविकाः पार्थिवाश्च ये ॥

तेषां सान्निध्यमत्रास्तु प्रसादात्तव शंकर

॥२१॥

भगवानुवाच

सलिलेनापि यः पूजामस्मिँल्लिंगे विधास्यति ॥

तस्य पूजाफलं सर्वं भविष्यति द्विजोत्तम

॥२२॥

वृक्षाणामत्रसान्निध्यं सर्वेषां च भविष्यति ॥

अद्यप्रभृति नाम्नैतन्नागस्थानं भविष्यति

॥२३॥

यतस्तु सर्वनागानां सांनिध्य मत्र संस्थितम् ।

त्वमपि द्विजशार्दूल प्रयास्यसि ममान्तिकम्

॥२४॥

एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत ॥

मंकिस्तु देहमुत्सज्य शिवलोकं ततो गतः

॥२५॥

इत्येवं कथितं देवि मंकीशोद्भवमुत्तमम् ॥

श्रुतं हरति पापानि सम्यक्छ्रद्धासमन्वितैः

॥२६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मंकीश्वरमाहात्म्यवर्णनंनाम त्र्युत्तरद्विशततमोऽध्यायः ॥ २०३ ॥