मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 23

सोमेश्वरप्रतिष्ठामाहात्म्यवर्णनम्

ईश्वर उवाच

ततः शांतमना भूत्वा चंद्रमा विस्मयान्वितः ॥

शंभुभक्त्या परीतात्मा प्रभासक्षेत्रमास्थितः

॥१॥

पूर्वोक्तं यत्तु देवेन स तथा कृतवान्विभुः ॥

गत्वा सागरमध्ये तु गृहीत्वा लिंगमुत्तमम्

॥२॥

विश्वकर्म्माणमाहूय सहितं परिचारकैः ॥

आदिदेश स्वयं सोमस्त्वष्टारं देवशिल्पिनम्

॥३॥

चंद्र उवाच

विश्वकर्मन्निदं लिंगं मम दत्तं तु शंभुना ॥

गृहाण त्वं महाबाहो युक्तस्थाने निवेशय

॥४॥

रक्षस्व तावद्गन्तास्मि स्वकीयं भवनं विभो ॥

यज्ञार्थमानयिष्यामि यज्ञोपकरणानि च

॥५॥

ईश्वर उवाच

इत्युक्त्वा च तदा चंद्रश्चंद्र लोकं जगाम ह ॥

गत्वा तत्र महादेवि चंद्रलोकंमहाप्रभम्

॥६॥

कोटियोजनविस्तीर्णं सदामृतमयं शुभम् ॥

तत्राहूय महादेवि प्रतीहारं सुमेधसम्

॥७॥

मंत्रिणं हेमगर्भांगं बृहस्पतिसमं धिया ॥

यज्ञोपस्करसंभारं सर्वमादाय सत्वराः

॥८॥

प्रभासक्षेत्रं गच्छंतु ममादेशपरायणाः ॥

साग्निभिर्ब्राह्मणैः सार्द्धं गच्छंतु क्षेत्रमुत्तमम्

॥९॥

शीघ्रं संपाद्यतां सर्वं यथा यज्ञः प्रवर्तते ॥

सर्वेषामेव विप्राणां चंद्रलोकनिवासिनाम्

॥१०॥

पृथक्पृथग्विमानं तु देयं तेषां महाधनम् ॥

गवां च दशलक्षाणां सवत्सानां पयोमुचाम्

॥११॥

हेमभारैर्भूषितानां कामधेनूपमत्विषाम् ॥

अश्वानां श्यामकर्णानां सपादं लक्षमेव च

॥१२॥

दंतिनामयुतं चैव घंटाभरणशोभितम् ॥

सहस्राणि च चत्वारि रथानां वातरंहसाम्

॥१३॥

लक्षं तु करभाणां च मणिमाणिक्यसंयुतम् ॥

सैन्यानां कोटिरेका तु चतुरंगबलान्विता

॥१४॥

अग्निशौचानि वस्त्राणि ब्राह्मणार्थं तथैव च ॥

विभूषणानि दिव्यानि ऋत्विगर्थं शुभानि च

॥१५॥

नानाभक्ष्याणि भोज्यानि पानानि विविधानि च ॥

लक्षं कर्मकराणां तु दासीनां लक्षमेव च

॥१६॥

दारुवंशावधि प्रोक्तं यत्किंचित्स्वं मदाज्ञया ॥

अन्यद्यद्ब्राह्मणा ब्रूयुस्तत्सर्वं तत्र नीयताम्

॥१७॥

देवानां दानवानां तु यक्षगंधर्वरक्ष साम् ॥

सप्तद्वीपक्षितीशानां सप्तपातालवासिनाम्

॥१८॥

नानानृपसहस्राणां घोषणा क्रियतां मुहुः ॥

सर्वेषां घोषणा कार्या प्रभासागमनं प्रति

॥१९॥

इत्युक्त्वा मंत्रिणं तत्र चंद्रमास्त्वरयाऽन्वितः ॥

ब्रह्मलोकं स गतवान्यज्ञार्थं ब्रह्मणोंतिकम्

॥२०॥

सोऽपि चंद्रमसो मंत्री हेमगर्भो महाप्रभः ॥

सोमाज्ञां शिरसा कृत्वा यज्ञसंभारसंभृतः

॥२१॥

प्रभासं क्षेत्रमागत्य यज्ञार्थं यत्नवानभूत् ॥

तथैव चाह्वयांचक्रे भूर्भुवःस्वर्निवासिनः

॥२२॥

श्रुत्वा तु घोषणां सर्वे शीघ्रं तत्र समाययुः ॥

रवियोजनपर्यंतं क्षेत्रमालोक्य तत्र तत्

॥२३॥

ब्राह्मणांश्च समाहूय सोमाध्यक्षं उवाच तान् ॥

यज्ञांगं सर्वमानीतं मया सोमाज्ञया द्विजाः ॥

अनंतरं तु यत्कृत्यं भवद्भिस्तद्विधीयताम्

॥२४॥

इत्युक्ता ब्राह्मणाः सर्वे तपोनिर्धूतकल्मषाः ॥

तत्रैव ददृशुः सर्वे त्वष्टारं देवशिल्पिनम्

॥२५॥

तं दृष्ट्वा तु द्विजाः सर्वे लिंगं दृष्ट्वा समीपतः ॥

कथमेतदिति प्रोचुर्विश्वकर्मन्ब्रवीहि नः ॥

कस्मादत्र स्थितस्त्वं वै शिल्पिकोटिसमन्वितः

॥२६॥

विश्वकर्म्मोवाच

अहं सोमनियुक्तस्तु युक्तोऽस्मि लिंगरक्षणे ॥

तदाज्ञापालने यत्नः क्रियतेऽतो मया द्विजाः

॥२७॥

ईश्वर उवाच

एवं श्रुत्वा यदा विप्रा ज्ञात्वा सर्वं तु कारणम् ॥

चरिता यज्ञकार्यार्थं ततश्चक्रुरुप क्रमम्

॥२८॥

तत्र योजनपर्यंतं देवानां यजनं शुभम् ॥

तद्देवयजनं कृत्वा पत्नीशालां च चक्रिरे

॥२९॥

हविर्द्धानं सदश्चैव उत्तरा वेदिरेव च ॥

ब्रह्मणः सदनाग्नीध्रीत्येवं स्थानानि चक्रिरे

॥३०॥

तत्र योजनपर्यंतं यज्ञयूपांश्च मंडपान् ॥

विश्वकर्मा चकाराशु कुंडानि विविधानि च

॥३१॥

सहस्रसंख्यया तत्र कुण्डानां मंडपावधि ॥

तत्र ते ब्राह्मणाः सर्वे प्रतिष्ठायज्ञकोविदाः

॥३२॥

नानाभरणरत्नैश्च ब्राह्मणाः समलंकृताः ॥

चक्रुः सर्वे यथन्यायं शास्त्रं दृष्ट्वा पुनःपुनः

॥३३॥

वृक्षांस्तथौषधीर्दिव्या समित्पुष्पकुशादिकान् ॥

होमद्रव्यादिकं सर्व माज्यं प्राज्यं नवं पयः

॥३४॥

तथान्यदपि यत्किंचिद्यज्ञोपकरणं स्मृतम् ॥

वर्द्धनीकलशाद्यं च सर्वं हेममयं शुभम्

॥३५॥

चक्रुः सर्वं यथान्यायं प्रतिष्ठामखमादृताः ॥

तत्र विप्रगणो हृष्टो भक्ष्यभोज्यादितर्पितः

॥३६॥

वेदध्वनितनिर्घोषैर्दिवं भूमिं च संस्पृशन् ॥

सुशुभे मंडपस्तत्र पताकाभिरलंकृतः

॥३७॥

दिव्यसिंहासनोपेतो मुक्तादामपरिष्कृतः ॥

दिव्यचन्दनमालाभिः कल्पपल्लवतोरणैः

॥३८॥

दिव्यगन्ध सुगन्धाद्यैः स्वर्गस्थानमिवाभवत् ॥

चतुर्दशविधस्तत्र भूतग्रामः समागतः

॥३९॥

स्थावरः सर्पजातिश्च पक्षिजातिस्तथैव च ॥

मृगसंज्ञश्चतुर्थश्च पश्वाख्यः पञ्चमः स्मृतः

॥४०॥

षष्ठश्च मानुषः प्रोक्तः पैशाचः सप्तमः स्मृतः ॥

अष्टमो राक्षसः प्रोक्तो नवमो यज्ञ एव च

॥४१॥

गांधर्वशाक्रसौम्याश्च प्राजापत्यस्तथैव च ॥

ब्राह्मश्चेति समाख्यातश्चतुर्दशविधो गणः

॥४२॥

विश्वेदेवास्तथा साध्या मरुतो वसवस्तथा ॥

लोकपालास्तथाष्टौ च नक्षत्राणि ग्रहैः सह

॥४३॥

ब्रह्माण्डे देवता याश्च ताः सर्वास्तत्र चागताः ॥

हृष्टाः प्रभासके क्षेत्रे प्रारब्धे यज्ञकर्म्मणि

॥४४॥

घृतक्षीरवहा नद्यो दधिपायसकर्दमाः ॥

पक्वान्नानां फलानां च राशयः पर्वतोपमाः

॥४५॥

दृश्यन्ते विविधाकारास्तस्मिन्यज्ञमहोत्सवे ॥

जगु(?)स्तत्रैव गन्धर्वा ननृतुश्चाप्सरोगणाः

॥४६॥

भक्ष्यभोज्यैश्च विविधैः कामपानादिभिस्तथा ॥

तृप्ता देवाश्च मुनयो भूतग्रामाश्चतुर्दश

॥४७॥

एवं संभारसहितं यज्ञांगं सर्वमेव हि ॥

प्रगुणीकृत्य सचिवो मुक्त्वा तत्रैव रक्षकान् ॥

सोमस्याह्वाननार्थं च ब्रह्मलोकं जगाम ह

॥४८॥

ईश्वर उवाच

स दृष्ट्वा ब्रह्मणः पार्श्वे स्थितं सोममहाप्रभम् ॥

प्रणम्य दण्डवद्भूमौ सोमं ब्रह्माणमेव च

॥४९॥

कृतांजलिपुटो भूत्वा उवाच नतकंधरः ॥

हेमगर्भ उवाच ॥

भगवन्भवदादेशाद्यज्ञांगं सर्वमेव हि

॥५०॥

तत्र प्राभासिके क्षेत्रे मया ते प्रगुणीकृतम् ॥

तत्र ब्रह्मर्षयः सर्वे तथा राजर्षयोऽपरे

॥५१॥

त्वन्मार्गप्रेक्षकाः सर्वे सन्तिष्ठन्ते समाकुलाः ॥

अनन्तरं तु यत्कृत्यं तद्भवान्कर्तुमर्हति

॥५२॥

ईश्वर उवाच

इत्युक्तस्तु तदा चन्द्रः समुद्रस्य सुतेन वै ॥

प्रहस्योवाच ब्रह्माणं चन्द्रमा लोकसाक्षिणम्

॥५३॥

भगवन्सर्वदेवेश ममानुग्रहकाम्यया ॥

प्रतिष्ठायज्ञकामस्य ममातिथ्यं कुरु प्रभो

॥५४॥

अद्य मे सफलं जन्म सफलं च तपः प्रभो ॥

देवत्वमद्य मे ब्रह्मंस्त्वत्प्रसादाद्भविष्यति

॥५५॥

मया च तपसोग्रेण प्राप्तं लिंगमुमापतेः ॥

तत्प्रतिष्ठाविधिं सर्वं तद्भवान्कर्त्तुमर्हति

॥५६॥

ब्रह्मोवाच

अवश्यं तव कर्त्तास्मि प्रतिष्ठां शंकरात्मिकाम् ॥

त्वदाराधनलिंगे तु सोमेशेऽतिविशेषतः

॥५७॥

ये केचिद्भवितारो वा अतीता ये निशाकराः ॥

तेषां सोमान्वयानां च सर्वेषामाद्यदैवतम्

॥५८॥

योऽसौ सोमेश्वरो देव आदौ भैरवनामभृत् ॥

मन्वन्तरान्तरेऽतीते प्रतिष्ठेऽहं पुनःपुनः

॥५९॥

यदा प्राभासिकं क्षेत्रे गतोऽहं चाष्टवार्षिकः ॥

आहूतः पूर्वमिन्द्रेण भैरवस्य प्रतिष्ठिते

॥६०॥

तत्प्रभृत्येव मे नाम बालरूपी निगद्यते ॥

अन्येषु सर्वतीर्थेषु वृद्धरूपी वसाम्यहम्

॥६१॥

प्रभासे तु पुनश्चंद्र बाल्याप्रभृति संवसे ॥

ब्रह्माण्डे यानि तीर्थानि ब्राह्मणास्तेषु ये स्मृताः

॥६२॥

तेषामाद्यो निशानाथ प्रभासेऽहं व्यवस्थितः ॥

कल्पेकल्पे निशानाथ मम नामांतरं भवेत्

॥६३॥

स्वयंभूः प्रथमे नाम द्वितीये पद्मभूः स्मृतः ॥

तृतीये विश्वकर्त्तेति बालरूपी तुरीयके

॥६४॥

एषामेव परीवर्तो नाम्नां भावि पुनःपुनः ॥

परार्द्धद्वयपर्यंतं प्रभासे संस्थितस्य मे

॥६५॥

आदिसोमेन तत्रैव शंभोर्नेत्रोद्भवेन वै ॥

प्रभासे तु तपस्तप्त्वा प्रत्यक्षीकृतईश्वरः

॥६६॥

ततो ददौ वरं तुष्टः पूर्वचन्द्रस्य शूलधृक् ॥

यस्मादाराधितोऽहं ते सोम भक्त्या चिरन्तनम्

॥६७॥

तस्मात्सोमेशनामैवमस्मिँल्लिंगे भविष्यति ॥

यावद्ब्रह्मा शतानन्दः प्रकृतौ न प्रलीयते

॥६८॥

ये केचिद्भवितारो वै रात्रिनाथा निशाकराः ॥

ते मदाराधनं चात्र करिष्यंति पुनःपुनः

॥६९॥

इत्युक्त्वा भगवाञ्छंभुस्तत्रैवांतरधीयत ॥

तस्मिन्काले मया सोम आद्यं लिंगं प्रतिष्ठितम्

॥७॥

तदाप्रभृति सोमानां लक्षाणां द्वितयं गतम् ॥

सहस्रद्वितयं चैव शतं चैकं षडुत्तरम्

॥७१॥

सप्तमस्त्वं महावाहो वर्त्तसे सोम सांप्रतम् ॥

एतावन्त्येव लिंगानि प्रतिष्ठां प्रापितानि मे

॥७२॥

एष एवाधुना सोऽहं तदाराधनजं फलम् ॥

प्रतिष्ठातास्मि भद्रं ते सोम कृत्य ममैव तत्

॥७३॥

ईश्वर उवाच

इत्युक्त्वा भगवान्ब्रह्मा वेदविद्यासमन्वितः ॥

सर्वदेवमयो देवैः सहितस्तीर्थसंयुतः

॥७४॥

सनत्कुमारप्रमुखै र्योगीन्द्रैर्ऋषिभिः सह ॥

बृहस्पतिं समाहूय पुरस्कृत्य पुरोधसम्

॥७५॥

हंसयानं समारुह्य कोटिब्रह्मर्षिभिः सह ॥

आगतः सोमराजेन तदा ब्रह्मा जगत्पतिः

॥७६॥

प्राभासिके महातीर्थे यत्र दारुवनं स्मृतम् ॥

ऋषितोया नदी यत्र महापातकनाशिनी

॥७७॥

अस्मिंस्तीर्थे प्रभासे तु ब्रह्मभागः स उच्यते ॥

त्रिदैवतमिदं क्षेत्रं मया ते कथितं प्रिये

॥७८॥

तत्रागत्व चतुर्वक्त्रो ब्राह्मभागेऽतिनिर्मले ॥

मुनीनाकारयामास उन्नत स्थानवासिनः

॥७९॥

आयांतं वेधसं दृष्ट्वा देवर्षिगुरुसंयुतम् ॥

ते सर्वे पूजयामासुः संस्तवैर्वेदसंमितैः

॥८०॥

अथोवाच द्विजान्सर्वान्ब्रह्मा लोकपितामहः ॥

चिरमाराध्य सोमेन सोमेशं पापनाशनम्

॥८१॥

तस्मिन्प्रसन्ने सोमेन लब्धं लिङ्गमनुत्तमम् ॥

प्रतिष्ठार्थं तु देवस्य आयाता द्विजसत्तमाः

॥८२॥

यथा मया सदा कार्या प्रतिष्ठा शंकरात्मिका ॥

भवद्भिः परिकार्या सा मम भागसमाश्रयैः

॥८३॥

यतः कोपेन भवतां लिंगं प्रपतितं भुवि ॥

प्रतिष्ठा तस्य कर्तव्या युष्माभिर्वै न संशयः

॥८४॥

ईश्वर उवाच

गृहीत्वाऽथ मुनीन्सर्वान्ब्रह्मा लोकपिता महः ॥

आनीतः सोमराजेन तदा ब्रह्मा जगत्पतिः

॥८५॥

प्राभासिके महातीर्थे सावित्र्या सहितः प्रभुः ॥

कारयामास कुण्डानां मण्डपानां शतंशतम्

॥८६॥

एकैके मण्डपे तत्र चक्रे सप्तदशर्त्विजः ॥

गुरुणा प्रेरितो ब्रह्मा तत्र देवपुरोधसा

॥८७॥

पार्श्वे स्थितस्तदा ब्रह्मा विधानैर्वेद भाषितैः ॥

दीक्षयामास सोमं तु रोहिण्या सहितं विभुम्

॥८८॥

पत्नीं च रोहिणीं कृत्वा सर्वलक्षणसंयुताम् ॥

मृगचर्मधरां देवीं क्षौमवस्त्रावगुंठिता म्

॥८९॥

पत्नीशालां समानीता ऋत्विग्भिर्वेदपारगैः ॥

चंद्रमा दीक्षया युक्त ऋषिगंधर्वसंस्तुतः

॥९०॥

औदुंबरेण दंडेन संवृतो मृगचर्मणा ॥

अतीव तेजसा युक्तः शुशुभे सदसि स्थितः

॥९१॥

ततो ब्रह्मा महादेवि सर्वलोकपितामहः ॥

ऋत्विजां वरणं चक्रे वेदोक्तविधिना तदा

॥९२॥

गुरुर्होता वृतस्तत्र वसिष्ठोऽध्वर्युरेव च ॥

तत्रोद्गाता मरीचिस्तु ब्रह्मत्वे नारदः कृतः

॥९३॥

सनत्कुमारसंयुक्ताः सदस्यास्तत्र वै कृताः ॥

वस्त्रैराभरणैर्युक्ता मुकुटैरंगुलीयकैः

॥९४॥

भूषिता भूषणौघेन तस्मिन्यज्ञे तदर्त्विजः ॥

चतुर्षु तज्ज्ञाश्चत्वार एवं ते षोडशर्त्विजः

॥९५॥

प्रस्तोता कश्यपस्तत्र प्रतिहर्ता तु गालवः ॥

सुब्रह्मण्यस्तथा गर्गः सदस्यः पुलहः कृतः

॥९६॥

होता शुक्रः समाख्यातो नेष्टा क्रथ उदाहृतः ॥

मैत्रावरुणो दुर्वासा ब्राह्मणाच्छंसी कौशिकः

॥९७॥

अच्छावाकश्च शाकल्यो ग्रावस्थः क्रतुरेव च ॥

प्रस्थाता प्रतिपूर्वो यः शालंकायन एव च

॥९८॥

अग्नीध्रश्च मनुस्तत्र उन्नेता त्वंगिराः कृतः ॥

एवमाद्यान्मण्डपेषु कृत्वा तानृत्विजः प्रभुः

॥९९॥

अन्येषु मण्डपेष्वेव प्रत्येकमृत्विजः कृताः ॥

मण्डपानां शतेष्वेव कृत्वा कुण्डान्यकल्पयत्

॥१००॥

एकैको मण्डपस्तत्र विंशहस्तप्रमाणतः ॥

अस्त्रेणाशोध्य भूमिं तु पंचगव्येन प्रोक्ष्य च

॥१०१॥

चर्मणा चावगुंठ्यैव आलिख्यास्त्रेण पार्वति ॥

उल्लिख्य प्रोक्षणं कृत्वा खातं कृत्वा विधानतः

॥१०२॥

अष्टौ कुंडानि संकल्प्य तथैकमण्डपे प्रिये ॥

लेपनं मण्डपे कृत्वा वज्राकरणमेव च

॥१०३॥

चतुरस्रकार्मुकं च वर्तुलं कमलाकृति ॥

पूर्वां दिशं समा रभ्य कृत्वा तानि प्रयत्नतः

॥१०४॥

चतुःकोणसमायुक्तं पूर्वे कुण्डं निवेश्य तु ॥

भगाकृति तथाऽऽग्नेय्यां दक्षिणे धनुराकृति

॥१०५॥

नैर्ऋत्ये तु त्रिकोणं वै वर्तुलं पश्चिमेन तु ॥

षट्कोणं चैव वायव्ये पद्माकारं तथोत्तरे

॥१०६॥

ऐशान्यामष्टकोणं तु मध्ये चैकं विधा नतः ॥

प्रत्येकं मण्डपं शुभ्रं स्तम्भैः षोडशभिर्युतम्

॥१०७॥

ध्वजैः सतोरणैर्युक्तं चक्रे ब्रह्मा विधानतः ॥

न्यग्रोधं पूर्वतो न्यस्य दक्षे चोदुंबरं तथा

॥१०८॥

अश्वत्थं पश्चिमे चैव पलाशं चोत्तरे क्रमात् ॥

बाहुदंडप्रमाणेन ध्वजांस्तत्र निवेश्य वै

॥१०९॥

ऐन्द्र्यादौ पीतवर्णादि पताका परिकल्पिताः ॥

ततो ब्रह्मा ह्यग्निकुंडे चाग्निस्थापनमारभत्

॥११०॥

स्वस्थाने ब्राह्मणांश्चैव जाप्ये चैव न्ययोजयत् ॥

श्रीसूक्तं पावमानं च सदा चैव च वाजिनम्

॥१११॥

वृषाकपिं तथैन्द्रं च बह्वृचः पूर्वतोऽजपन् ॥

रुद्रान्पुरुषसूक्तं च क्रोकाध्यायं(?) च वैक्रियम्

॥११२॥

ब्राह्मणं पैत्र्यमैंद्रं च जपेरन्यजुषो यमे(?) ॥

देवव्रतं वामदेव्यं ज्येष्ठं साम रथंतरम्

॥११३॥

भेरुंडानि च सामानि च्छंदोगः पश्चिमेऽजपत् ॥

अथर्वाथर्वशिरसं स्कम्भस्तंभमथर्वणम्

॥११४॥

नीलरुद्रमथर्वाणमथर्वा चोत्तरेऽजपत् ॥

गर्भाधानादिकं सर्वं ततोऽग्नेरकरोद्विभुः

॥११५॥

पूर्णाहुतिं ततो दत्त्वा स्नानकर्म तथाऽरभत् ॥

पंचपल्लवसंयुक्तं मृत्तिकाभिः समन्वितम्

॥११६॥

कषायैः पंचगव्यैश्च पंचामृतफलैस्तथा ॥

तीर्थोदकैः समेतं तु मंत्रैः स्नानमथारभत्

॥११७॥

नेत्राण्युत्पाद्य देवस्य कृत्वा च तिलकक्रियाम् ॥

पृथिव्यां यानि तीर्थानि पाताले च विशेषतः

॥११८॥

स्वर्ग लोके च यान्येव तत्र तान्याययुस्तदा ॥

एतस्मिन्नन्तरे ब्रह्मा देवानां पश्यतां तदा

॥११९॥

भूमिं भित्त्वा विवेशाथ तत्र लिंगमपश्यत ॥

स्पर्शाख्यं तं तु संछाद्य मधुना दर्भमूलकैः

॥१२०॥

तत्र ब्रह्मशिलां न्यस्य तस्या ऊर्ध्वं महाप्रभम् ॥

लिंगं प्रतिष्ठयामास कृत्वा निश्चलमा त्मवान्

॥१२१॥

स्थित्वा च परमे तत्त्वे मंत्रन्यासमथाकरोत् ॥

एवं लिंगं प्रतिष्ठाप्य तत्र ब्रह्मा जगद्गुरुः ॥

पूजयामास विधिना वेदोक्तैर्मंत्र विस्तरैः

॥१२२॥

मन्त्रन्यासे कृते तत्र ब्रह्मणा लोककर्तॄणा ॥

तत्र विप्रगणो हृष्टो जयशब्दादिमंगलैः ॥

निर्धूमश्चाभवद्वह्निः सूर्यकोटिसमप्रभः

॥१२३॥

देवदुन्दुभयो नेदुः प्रसन्नाश्च दिगीश्वराः ॥

पुष्पवृष्टिः पपातोच्चैस्तस्मिन्यज्ञमहोत्सवे

॥१२४॥

प्रतिष्ठाप्य ततो लिंगं श्रीसोमेशं पितामहः ॥

दापयामास विप्रेभ्यो भूरिशो यज्ञदक्षिणाम्

॥१२५॥

सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥

दक्षिणामददात्सोमस्त्रीँल्लोकान्ब्रह्मणे पुरा

॥१२६॥

तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यस्तथैव च ॥

ददौ हिरण्यं रत्नानि कोटिशो भूरिदक्षिणाः

॥१२७॥

सोभिषिक्तो महातेजाः सर्वैर्ब्रह्मर्षिभिस्ततः ॥

त्रीँल्लोकान्भावयामास स्वभासा भासतां वरः

॥१२८॥

तं सिनी च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः ॥

कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे

॥१२९॥

प्राप्यावभृथमव्यग्रः कृत्वा माहेश्वरं मखम् ॥

कृतार्थः परिपूर्णश्च संबभूव निशापतिः

॥१३०॥

ततस्तस्मै ददौ राज्यं प्राज्यं ब्रह्मा पितामहः ॥

बीजौषधीनां विप्राणामवन्नानां च वरानने

॥१३१॥

तस्मिन्यज्ञे समाजग्मुर्ये केचित्पृथिवीश्वराः ॥

तेषां राज्यं धनं भोगान्ददौ स्वर्गं तथाऽक्षयम्

॥१३२॥

ब्राह्मणान्भोजयामास स्वयमेवौषधीपतिः ॥

ददौ सर्वं तदा तेषां प्रभासक्षेत्रवासिनाम्

॥१३३॥

हिरण्यादीन्यदाच्चैव महादानानि षोडश ॥

यो यदर्थयते तत्र सामान्यः प्राकृतो जनः ॥

निजकर्मानुसारेण स लेभे च तदेव हि

॥१३४॥

एवं समर्थिते यज्ञे सर्वे देवाः सवासवाः ॥

स्थापयित्वा तु लिंगानि जग्मुः सर्वे यथागतम्

॥१३६॥

चन्द्रमास्तु पुनर्देवि ब्रह्मणा सहितो विभुः ॥

लिंगमाराधयामास प्रभासे पापनाशने

॥१३६॥

त्रिकालं पूजयामास धूपमाल्यानुलेपनैः ॥

तं प्रणम्य च देवेशि स्तौति नित्यं निशापतिः

॥१३७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमेश्वरप्रतिष्ठामाहात्म्यवर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥