मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १६९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 169

ततो गच्छेन्महादेवि लिंगं वैवस्वतेश्वरम्

ईश्वर उवाच

ततो गच्छेन्महादेवि लिंगं वैवस्वतेश्वरम् ॥

देव्या दक्षिणदिग्भागे धनुस्त्रिंशकसंस्थितम्

॥१॥

वैवस्वतेन मनुना स्थापितं सर्वकामदम् ॥

तत्समीपे देवखातं तिष्ठते तु महाद्भुतम्

॥२॥

स्नात्वा तत्र वरारोहे यस्तं पूजयते नरः ॥

पञ्चोपचारैर्विधिना भक्तिप्रह्वो जितेन्द्रियः ॥

जपेदघोरविधिना स्तोत्रं सिद्धिं स चाप्नुयात्

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वैवस्वतेश्वरमाहात्म्य वर्णनंनामैकोनसप्तत्युत्तरशततमोऽध्यायः ॥ १६९ ॥