मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २०७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 207

पात्रापात्रविचारवर्णनम्

ईश्वर उवाच

ईश्वर उवाच

अतः परं प्रवक्ष्यामि श्राद्धदानान्यनुक्रमात् ॥

तारणाय च भूतानां सरस्वत्यब्धिसंगमे

॥१॥

लोके श्रेष्ठतमं सर्वं ह्यात्मनश्चापि यत्प्रियम् ॥

सर्वं पितॄणां दातव्यं तदेवाक्षय्यमिच्छताम्

॥२॥

जांबूनदमयं दिव्यं विमानं सूर्यसन्निभम् ॥

दिव्याप्सरोभिः संकीर्णमन्नदो लभतेऽक्षयम्

॥३॥

आच्छादनं तु यो दद्यादहतं श्राद्धकर्मणि ॥

आयुः प्रकाशमैश्वर्यं रूपं तु लभते च सः

॥४॥

कमण्डलुं च यो दद्याद्ब्राह्मणे वेदपारगे ॥

मधुक्षीरस्रवा धेनुर्दातारमनुगच्छति

॥५॥

यः श्राद्धे अभयं दद्यात्प्राणिनां जीवितैषिणाम् ॥

अश्वदानसहस्रेण रथदानशतेन च ॥

दन्तिनां च सहस्रेण अभयं च विशिष्यते

॥६॥

यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा ॥

क्षिप्रं प्राप्नोति तत्सर्वं पितृभक्तस्तु मानवः

॥७॥

पितरः सर्वलोकेषु तिथिकालेषु देवताः ॥

सर्वे पुरुषमायांति निपानमिव धेनवः

॥८॥

मा स्म ते प्रतिगच्छेयुः पर्वकाले ह्यपूजिताः ॥

मोघास्तेषां भवन्त्वाशाः परत्रेह च मा क्वचित्

॥९॥

सरस्वत्यास्तु सान्निध्यं यस्त्वेकं भोजयेद्द्विजम् ॥

कोटिभोज्यफलं तस्य जायते नात्र संशयः

॥१०॥

अमावास्यां नरो यस्तु परान्नमुपभुञ्जते ॥

तस्य मासकृतं पुण्यमन्नदातुः प्रजायते

॥११॥

षण्मासमयने भुंक्ते त्रीन्मासान्विषुवे स्मृतम् ॥

वर्षैर्द्वादशभिश्चैव यत्पुण्यं समुपार्जितम् ॥

तत्सर्वं विलयं याति भुक्त्वा सूर्येन्दुसंप्लवे

॥१२॥

साग्रं मासं रवेः क्रान्तावाद्यश्राद्धे त्रिवत्सरम् ॥

मासिकेऽप्यथ वर्षस्य षण्मासे त्वर्धवत्सरम्

॥१३॥

तथा संचयनश्राद्धे जातिजन्मकृतं नृणाम् ॥

मृत शय्याप्रतिग्राही वेदस्यैव च विक्रयी ॥

ब्रह्मस्वहारी च नरस्तस्य शुद्धिर्न विद्यते

॥१४॥

तडागानां सहस्रेण ह्यश्वमेधशतेन च ॥

गवां कोटि प्रदानेन भूमिहर्ता न शुद्ध्यति

॥१५॥

सुवर्णमाषं गामेकां भूमेरप्यर्धमंगुलम् ॥

हरन्नरकमाप्नोति यावदाभूतसंप्लवम्

॥१६॥

ब्रह्महत्या सुरापानं दरिद्रस्य तु यद्धनम् ॥

गुरोः पत्नी हिरण्यं च स्वर्गस्थमपि पातयेत्

॥१७॥

सहस्रसंमिता धेनुरनड्वान्दश धेनवः ॥

दशानडुत्समं यानं दशयानसमो हयः

॥१८॥

दशहयसमा कन्या भूमिदानं ततोऽधिकम् ॥

तस्मात्सर्वप्रयत्नेन विक्रयं नैव कारयेत्

॥१९॥

विशेषतो महाक्षेत्रे सर्वपातकनाशने ॥

चितिकाष्ठं च वै स्पृष्ट्वा यज्ञयूपांस्तथैव च ॥

वेदविक्रयकर्तारं स्पृष्ट्वा स्नानं विधीयते

॥२०॥

आदेशं पठते यस्तु आदेशं च ददाति यः ॥

द्वावेतौ पापकर्माणौ पातालतलवासिनौ

॥२१॥

आदेशं पठते यस्तु राजद्वारे तु मानवः ॥

सोऽपि देवि भवेद्वृक्ष ऊषरे कंटकावृतः ॥

स्थितो वै नृपतिद्वारि यः कुर्याद्वेदविक्रयम्

॥२२॥

ब्रह्महत्यासमं पापं न भूतं न भविष्यति ॥

वरं कुर्वन्ध्रुवं देवि न कुर्याद्वेदविक्रयम्

॥२३॥

हत्वा गाश्च वरं मांसं भक्षयीत द्विजाधमः ॥

वरं जीवेत्समं म्लेच्छैर्न कुर्याद्वेदविक्रयम्

॥२४॥

प्रत्यक्षोक्तिः प्रत्ययश्च प्रश्नपूर्वः प्रतिग्रहः ॥

याजनाऽध्यापने वादः षड्विधो वेदविक्रयः

॥२५॥

वेदाक्षराणि यावन्ति नियुंक्ते स्वार्थकारणात् ॥

तावतीर्भ्रूणहत्या वै प्राप्नुयाद्वेदविक्रयी

॥२६॥

वेदानुयोगाद्यो दद्याद्ब्राह्मणाय प्रतिग्रहम् ॥

स पूर्वं नरकं याति ब्राह्मणस्तदनन्तरम्

॥२७॥

वैश्वदेवेन हीना ये हीनाश्चातिथ्यतोऽपि ये ॥

कर्मणा सर्ववृषला वेदयुक्ता ह्यपि द्विजाः

॥२८॥

येषामध्ययनं नास्ति ये च केचिदनग्नयः ॥

कुलं वाऽश्रोत्रियं येषां ते सर्वे शूद्रजातयः

॥२९॥

मृतेऽहनि पितुर्यस्तु न कुर्याच्छ्राद्धमादरात् ॥

मातुश्चैव वरारोहे स द्विजः शूद्रसंनिभः

॥३०॥

मृतके यस्तु भुञ्जीत गृहीतशशिभास्करे ॥

गजच्छायासु यः कश्चित्तं च शूद्रवदाचरेत्

॥३१॥

ब्रह्मचारिणि यज्ञे च यतौ शिल्पिनि दीक्षिते ॥

यज्ञे विवाहे सत्रे च सूतकं न कदाचन

॥३२॥

गोरक्षकान्वणिजकांस्तथा कारुकुशीलवान् ॥

स्पृश्यान्वार्धुषिकांश्चैव विप्रान्शूद्रवदाचरेत्

॥३३॥

ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु ॥

दाम्भिको दुष्कृतप्रायः स च शूद्रसमः स्मृतः

॥३४॥

अस्नाताशी मलं भुंक्ते अजापी पूयशोणितम् ॥

अहुत्वा तु कृमीन्भुंक्ते अदत्त्वा विषभोजनम्

॥३५॥

परान्नेन तु भुक्तेन मिथुनं योऽधिगच्छति ॥

यस्यान्नं तस्य ते पुत्रा अन्नाच्छुक्रं प्रवर्तते

॥३६॥

राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ॥

आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः

॥३७॥

कारुकान्नं प्रजा हन्ति बलं निर्णेजकस्य च ॥

गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति

॥३८॥

पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् ॥

विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम्

॥३९॥

गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः ॥

नायंत्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी

॥४०॥

सद्यः पतति मांसेन लाक्षया लवणेन च ॥

त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात्

॥४१॥

रसा रसैर्नियंतव्या न त्वेव लवणं रसैः ॥

कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः

॥४२॥

भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः ॥

कृमिभूतः स विष्ठायां पितृभिः सह मज्जति

॥४३॥

अपूपश्च हिरण्यं च गामश्वं पृथिवीं तिलान् ॥

अविद्वान्प्रतिगृह्णाति भस्मीभवति काष्ठवत्

॥४४॥

हिरण्यमायु रत्नं च भूर्गौश्चाकर्षतस्तनुम् ॥

अश्वश्चक्षुस्त्वचं वासो घृतं तेजस्तिलाः प्रजाः

॥४५॥

तिल अग्निहोत्री तपस्वी च क्षणवान्क्रियते यदि ॥

अग्निहोत्रं तपश्चैव सर्वं तद्धनिनो धनम्

॥४६॥

सोमविक्रयणे विष्ठा भेषजे पूयशोणितम् ॥

नष्टं देवलके दानं ह्यप्रतिष्ठं च वार्धुके

॥४७॥

देवार्चनपरो विप्रो वित्तार्थी भुवनत्रये ॥

असौ देवलकोनाम हव्यकव्येषु गर्हितः

॥४८॥

भ्रातुर्मृतस्यभायायां यो गच्छेत्कामपूर्वकम् ॥

धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः

॥४९॥

दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ॥

परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः

॥५०॥

यो नरोऽन्यस्य वासांसि कूपोद्यानगृहाणि च ॥

अदत्तान्युपयुंजानः स तत्पापतुरीयभाक्

॥५१॥

आमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते ॥

दातुर्यद्दुष्कृतं किञ्चित्तत्सर्वं प्रतिपद्यते

॥५२॥

ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा ॥

सत्यानृताभ्यां जीवेत न श्ववृत्त्या कथंचन

॥५३॥

भक्ष्यं नित्यमृतं ज्ञेयममृतं स्यादयाचितम् ॥

मृतं तु वृद्ध्याजीवित्वं प्रमृतं कर्षणं स्मृतम्

॥५४॥

सत्यानृतं च वाणिज्यं तेन चैवोपजीव्यते ॥

सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत

॥५५॥

विप्रयोनिं समासाद्य संकरं परिवर्जयेत् ॥

मानुष्यं दुर्लभं लोके ब्राह्मण्यमधिकं ततः

॥५६॥

एकशय्यासनं पक्तिर्भाण्डपक्वान्नमिश्रणम् ॥

याजनाध्यापनं योनिस्तथा च सह भोजनम् ॥

नवधा संकरः प्रोक्तो न कर्तव्योऽधमैः सह

॥५७॥

अजीवन्कर्मणा स्वेन विप्रः क्षात्त्रं समाश्रयेत् ॥

वैश्यकर्माऽथवा कुर्याद्वार्षलं परिवर्जयेत्

॥५८॥

कुसीदं कृषिवाणिज्यं प्रकुर्वीत स्वयं कृतम् ॥

आपत्काले स्वयं कुर्वन्स्नानेन स्पृश्यते द्विजः

॥५९॥

लब्धलाभः पितॄन्देवान्ब्रांह्मणांश्चैव तर्पयेत् ॥

ते तृप्तास्तस्य तत्पापं शमयंति न संशयः

॥६०॥

जलगोशकटारामयाञ्चावृद्धिवणिक्क्रियाः ॥

अनूपं पर्वतो राजा दुर्भिक्षे जीविका स्मृताः

॥६१॥

असतोऽपि समादाय साधुभ्यो यः प्रयच्छति ॥

धनं स्वामिनमात्मानं संतारयति दुस्तरात्

॥६२॥

शूद्रे समगुणं दानं वैश्ये तद्द्विगुणं स्मृतम् ॥

श्रोत्रिये तच्च साहस्रमनन्तं चाग्निहोत्रिके

॥६३॥

ब्राह्मणातिक्रमो नास्ति नाचरेद्यो व्यवस्थितिम् ॥

ज्वलंतमग्निमुत्सृज्य न हि भस्मनि हूयते

॥६४॥

विद्यातपोभ्यां हीनेन नैव ग्राह्यः प्रतिग्रहः ॥

गृह्णन्प्रदातारमधो नयत्यात्मानमेव च

॥६५॥

तस्माच्छ्रोत्रिय एवार्हो गुणवाञ्छीलवाञ्छुचिः ॥

अव्यंगस्तत्र निर्दोषः पात्राणां परमं स्मृतम्

॥६६॥

कपालस्थं यथा तोयं श्वदृतौ च यथा पयः ॥

दूषितं स्थानदोषेण वृत्तहीने तथा श्रुतम्

॥६७॥

दत्तं पात्रमतिक्रम्य यदपात्रे प्रतिग्रहः ॥

तद्दत्तं गामतिक्रम्य गर्दभस्य गवाह्निकम्

॥६८॥

वृत्तं तस्मात्तु संरक्षेद्वित्तमेति गतं पुनः ॥

अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः

॥६९॥

प्रथमं तु गुरौ दानं दत्त्वा श्रेष्ठमनुक्रमात् ॥

ततोऽन्येषां तु विप्राणां दद्यात्पात्रानुरूपतः

॥७०॥

गुरौ च दत्तं यद्दानं दत्तं पात्रेषु मानवैः ॥

निष्फलं तद्भवेत्प्रेत्य यात्युताधोगतिं प्रति

॥७१॥

अवमानं गुरोः कृत्वा कोपयित्वा तु दुर्मतिः ॥

गुर्वमानहतो मूढो न शांतिमधि गच्छति

॥७२॥

गुरोरभावे तत्पुत्रं तद्भार्यां तत्सुतं विना ॥

पुत्रं प्रपौत्रं दौहित्रं ह्यन्यं वा तत्कुलोद्भवम्

॥७३॥

पंचयोजनमध्ये तु श्रूयते स्वगुरुर्यदा ॥

तदा नातिक्रमेद्दानं दद्यात्पात्रेषु मानवः

॥७४॥

यतिश्चेत्प्रार्थयेल्लोभाद्दीयमानं प्रतिग्रहम् ॥

न तस्य देयं विद्वद्भिर्न लोभः शस्यते यतेः

॥७५॥

धनं प्राप्य यतिर्लोके मौनं ज्ञानं च नाभ्यसेत् ॥

उपभोगं तु दानेन जीवितं ब्रह्मचर्यया

॥७६॥

कुले जन्म च दीक्षाभिर्ये गतास्ते नरोत्तमाः ॥

सौभाग्यमाप्नुयाल्लोके नूनं रसविवर्जनात्

॥७७॥

आयुष्मत्यः प्रजाः सर्वा भवन्त्यामिषवर्जनात्

॥७८॥

चीरवल्कलधृक्त्यक्त्वा वस्त्राण्याभरणानि च ॥

नागाधिपत्यं प्राप्नोति उपवासेन मानवः

॥७९॥

क्रीडते सत्यवाक्येन स्वर्गे वै देवतैः सह ॥

अहिंसया तथाऽऽरोग्यं दानात्कीर्तिमनुक्रमात्

॥८०॥

द्विजशुश्रूषया राज्यं द्विजत्वं चातिपुष्कलम् ॥

दिव्यरूपमवाप्नोति देवशुश्रूषया नरः

॥८१॥

अन्नदानाद्भवेत्तृप्तिः सर्वकामैरनुत्तमैः ॥

दीपस्य तु प्रदानेन चक्षुष्माञ्जायते नरः

॥८२॥

तुष्टिर्भवेत्सर्वकालं प्रदानाद्गन्धमाल्ययोः ॥

लवणस्य तु दातारस्तिलानां सर्पिषस्तथा ॥

तेजस्विनोऽपि जायन्ते भोगिनश्चिरजीविनः

॥८३॥

सुचित्रवस्त्राभरणोपधानं दद्यान्नरो यः शयनं द्विजाय ॥

रूपान्वितां पक्ष्मवतीं मनोज्ञां भार्यामरालोपचितां लभेत्सः

॥८४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्राद्धकल्पे पात्रापात्रविचारवर्णनंनाम सप्तोत्तरद्विशततमोऽध्यायः ॥ २०७ ॥