ततो गच्छेन्महादेवि हिरण्यातटसंस्थितम्
ईश्वर उवाच
ततो गच्छेन्महादेवि हिरण्यातटसंस्थितम् ॥
स्थानं तुण्डपुरंनाम यत्रासौ घर्घरो ह्रदः
॥१॥तत्र कन्देश्वरो देवो यत्र बद्धा जटा मया ॥
तत्र स्नात्वा नरः सम्यक्त्ं देवं यः प्रपूजयेत् ॥
स मुक्तः पातकैर्घोरैः प्राप्नुयाच्छासनं शुभम्
॥२॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये हिरण्यातुण्डपुर घर्घरह्रदकन्देश्वर माहात्म्यवर्णनंनाम त्रिषष्ट्युत्तरत्रिशतत मोऽध्यायः ॥ ३६३ ॥