मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ७८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 78

ततो गच्छेन्महादेवि देवं वैश्वानरेश्वरम्

ईश्वर उवाच

ततो गच्छेन्महादेवि देवं वैश्वानरेश्वरम् ॥

तस्यैवाग्नेयकोणस्थं धनुषां पंचके स्थितम्

॥१॥

पापघ्नं सर्वजंतूनां दर्शनात्स्पर्शनादपि ॥

तत्र कश्चिच्छुकः पूर्वं नीडं देवि चकार ह

॥२॥

प्रासादे भार्यया सार्द्धं निवस न्सुचिरं स्थितः ॥

ततस्तौ दंपती नित्यं प्रदक्षिणं प्रचक्रतुः

॥३॥

कुलायस्य वशाद्देवि न तु भक्त्या कथंचन ॥

कालेन महता तौ च पंचत्वं समुपस्थितौ

॥४॥

जातौ तेन प्रभावेन उक्तौ जातिस्मरौ भुवि ॥

लोपामुद्रागस्त्यनामप्रसिद्धिं परमां गतौ

॥५॥

अथ गाथा पुरी गीता अगस्त्येन महात्मना ॥

स्मरता पूर्वदेहं तु विस्मयेनानुभूतिजा

॥६॥

कृत्वा प्रदक्षिणं सम्यग्वह्नीशं यः प्रपश्यति ॥

नूनं प्रसिद्धिमाप्नोति इतश्चाहं यथा पुरा

॥७॥

एवं देवि तवाख्यातं माहात्म्यं वह्निदैवतम् ॥

श्रुतं पापहरं नृणां सर्वकामफलप्रदम्

॥८॥

घृतेन तं तु संस्नाप्य विधिना वै समर्चयेत् ॥

हेम दद्याच्च विप्रेंद्र सम्यक्छ्रद्धासमन्वितः

॥९॥

एवं कृत्वा विधानेन सम्यग्यात्राफलं लभेत् ॥

वह्निलोकं तु संप्राप्य मोदते कालमक्षयम्

॥१०॥

इति श्रीस्कांदे महापुराण एकाशीति साहरुया संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वैश्वानरेश्वरमाहात्म्यवर्णनंनामाष्टसप्तति तमोऽध्यायः ॥ ७८ ॥