तस्यैव पश्चिमे भागे धनुपां पञ्चके स्थितम्
ईश्वर उवाच
तस्यैव पश्चिमे भागे धनुपां पञ्चके स्थितम् ॥
तृणबिन्द्वीश्वरंनाम तीव्रभक्त्या प्रतिष्ठितम्
॥१॥कृत्वा महत्तपो देवि तृणबिंदुमु नीश्वरः ॥
मासिमासि कुशाग्रेण जलबिंदुं निपीय वै
॥२॥संवत्सराण्यनेकानि एवमाराध्य चेश्वरम् ॥
संप्राप्तं परमां सिद्धिं क्षेत्रे प्राभासिके शुभे
॥३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये तृणबिंद्वीश्वरमाहात्म्य वर्णनंनामाष्टात्रिंशदुत्तरशततमोऽध्यायः ॥ १३८ ॥