मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १५६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 156

गरुडेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि वैनतेयप्रतिष्ठितम् ॥

रत्नेश्वरादुत्तरतो धनुषां त्रितये स्थितम्

॥१॥

वैनतेयश्च देवेशि ज्ञात्वा क्षेत्रं तु वैष्णवम् ॥

लिंगं प्रतिष्ठयामास सर्वपापप्रणाशनम्

॥२॥

यस्तं पूजयते भक्त्या पंचम्यां तु विधानतः ॥

न विषं क्रमते तस्य सप्त जन्मानि सर्पजम्

॥३॥

पंचामृतेन संस्नाप्य पूजयित्वा विधानतः ॥

प्राप्नुयात्सकलं पुण्यं मोदते दिवि देववत्

॥४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्ये गरुडेश्वरमाहात्म्यवर्णनंनाम षट्पंचाशदुत्तरशततमोऽध्यायः ॥ १५६ ॥