मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १२७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 127

क्षेमंकरेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि क्षेमेश्वरमनुत्तमम् ॥

तस्मादुत्तरकोणस्थं कपालेशाग्निगोचरे

॥१॥

धनुषां पंचदशके कपालेश्वरतः स्थितम् ॥

लिंगं महाप्रभावं हि सर्वपातकनाशनम्

॥२॥

क्षेममूर्तिः पुरा राजा बभूव स महाबलः ॥

तेन तत्र तपस्तप्तं चिरकालं महात्मना

॥३॥

ततः संस्थापितं लिंगं भक्त्या भावितचेतसा ॥

तद्दृष्ट्वा क्षेममायाति कार्यं क्षेमेण सिद्ध्यति

॥४॥

सर्वकामसमृद्धात्मा भूया ज्जन्मनिजन्मनि ॥

एवं क्षेमेश्वरं लिंगं ख्यातं पातकनाशनम्

॥५॥

सर्वकामप्रदं नृणां श्रुतं सौभाग्यदायकम् ॥

दर्शनेनापि तस्यापि गोशतस्य फलं स्मृतम्

॥६॥

तस्मात्क्षेत्रफलाकांक्षी नित्यं तल्लिंगमाश्रयेत्

॥७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्षेमंकरेश्वरमाहात्म्यवर्णनंनाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥ १२७ ॥