मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ८५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 85

संनिहित्यामाहात्म्यवर्णनम्

देव्युवाच

तत्र संनिहिता प्रोक्ता या त्वया वृषभध्वज ॥

कथं देव समायाता कुरुक्षेत्रान्महानदी ॥

किं प्रभावा तु सा प्रोक्ता फलं स्नानादिकेन किम्

॥१॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि यत्र संनिहिता शुभा ॥

पापघ्नी सर्वजंतूनां दर्शनात्स्पर्शनादपि

॥२॥

आदिनारायणाद्देवि पश्चिमे धनुषां त्रये ॥

संस्थिता सा महादेवी सरिद्रूपा महानदी

॥३॥

कथयामि समासेन तदुत्पत्तिं शृणु प्रिये ॥

जरासंधभयाद्देवि विष्णुः परिजनैः सह

॥४॥

गृहीत्वा यादवान्सर्वान्बालवृद्धवणिग्जनान् ॥

स शून्यां मथुरां कृत्वा प्रभासं समुपागतः

॥५॥

समुद्रं प्रार्थयामास स्थानं संवासहेतवे ॥

एतस्मिन्नेव काले तु देवदेवो दिवाकरः

॥६॥

संग्रस्तो राहुणा देवि पर्वकाले ह्युपस्थिते ॥

तं दृष्ट्वा यादवाः सर्वे विषादं परमं गताः

॥७॥

अप्राप्ताः संनिहित्यायां तानुवाच जनार्द्दनः ॥

मा विषादं यदुश्रेष्ठा व्रजध्वं मयि संस्थिते

॥८॥

दृश्यतां मत्प्रभावोऽद्य धर्मा र्थमिह भूतले ॥

आनयिष्याम्यहं सम्यक्पुण्यं सांनिहितं सरः

॥९॥

एवमुक्त्वा स भगवान्समाधिस्थो बभूव ह ॥

एवं संध्यायतस्तस्य विष्णोरमिततेजसः

॥१०॥

प्रादुर्भूता ततस्तस्य वारिधाराऽग्रतः शुभा ॥

बिभेद्य धरणीपृष्ठं स्नानार्थं चासुरद्विषः

॥११॥

तत स्ते यादवाः सर्वे रामसांबपुरोगमाः ॥

चक्रुः स्नानं महादेवि राहुग्रस्ते दिवाकरे

॥१२॥

प्राप्तपुण्या बभूवुस्ते संनिहित्यासमुद्भवम् ॥

कुरुक्षेत्रस्य यात्रायाः प्राप्य सम्यक्फलं हि ते

॥१३॥

एवं तत्समनुप्राप्तं पुण्यं सान्निहितं सरः ॥

तत्र स्नात्वा महादेवि राहुग्रस्ते दिवाकरे ॥

अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोत्यशेषतः

॥१४॥

यस्तत्र भोजयेद्विप्रं षड्रसं विधिपूर्वकम् ॥

एकेन भोजितेनैव कोटिर्भवति भोजिता

॥१५॥

यस्तत्र कारयेद्धोमं संनिहित्यासमीपतः ॥

एकैकाहुतिदानेन कोटिहोमफलं लभेत्

॥१६॥

मन्त्रजाप्यं तु कुरुते तत्र स्थाने स्थितो यदि ॥

एकैकमंत्रजाप्येन कोटिजाप्यफलं लभेत्

॥१७॥

सुवर्णदानं दातव्यं तत्र यात्राफलेप्सुभिः ॥

स्नात्वा संपूजनीयश्च आदिदेवो जनार्द्दनः

॥१८॥

इति वै कथितं सम्यक्फलं सांनिहितं तव ॥

श्रुतं पापहरं नृणां सम्यक्छ्रद्धावतां प्रिये

॥१९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संनिहित्यामाहात्म्यवर्णनंनाम पंचाशीतितमोऽध्यायः ॥ ८५ ॥