मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३०५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 305

नारदादित्यमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि तस्याः पूर्वेण संस्थितम् ॥

नारदादित्यनामानं जरादारिद्र्यनाशनम्

॥१॥

पश्चिमे मूलचंडीशाद्धनुषां च शतत्रये ॥

आराध्य नारदो देवि भास्करं वारितस्करम् ॥

जरा निर्मुक्तदेहस्तु तत्क्षणात्समपद्यत

॥२॥

देव्युवाच

कथं जरामनुप्राप्तो नारदो मुनिपुंगवः ॥

कथमाराधितः सूर्य एतन्मे वद शंकर

॥३॥

ईश्वर उवाच

यदा द्वारवतीं प्राप्तो नारदो मुनिपुंगवः ॥

सर्वे दृष्टास्तदा तेन विष्णोः पुत्रा महाबलाः

॥४॥

तद्राजकुलमध्ये तु क्रीडमाना परस्परम् ॥

आयांतं नारदं दृष्ट्वा सर्वे विनयसंयुताः

॥५॥

नमश्चक्रुर्यथान्यायं विना सांबं त्वरान्विताः ॥

अविनीतं तु तं दृष्ट्वा कथयामास नारदः

॥६॥

शरीरमदमत्तोऽसि यस्मात्सांब हरेः सुत ॥

अचिरेणैव कालेन शापं प्राप्स्यसि दारुणम्

॥७॥

सांब उवाच

नमस्कारेण किं कार्यमृषीणां च जितात्मनाम् ॥

आशीर्वादेन तेषां च तपोहानिः प्रजायते

॥८॥

मुनीनां यः स्वभावो हि त्वयि लेशो न नारद ॥

विद्यते ब्रह्मणः पुत्र उच्यते किमतः परम्

॥९॥

न कलत्रं न ते पुत्रा न च पौत्रप्रपौत्रकाः ॥

न गृहं नैव च द्वारं न हि गावो न वत्सकाः

॥१०॥

ब्रह्मणो मानसः पुत्रो ब्रह्मचर्ये व्यवस्थितः ॥

अयुक्तं कुरुते नित्यं कस्मात्प्रकृतिरीदृशी

॥११॥

युद्धं विना न ते सौख्यं सौख्यं न कलहं विना ॥

यादृशस्तादृशो वापि वाग्वादोऽपि सदा प्रियः

॥१२॥

स्नानं संध्या जपो होमस्तर्पणं पितृदेवयोः ॥

नारदः कुरुते चान्यदन्यत्कुर्वंति ब्राह्मणाः

॥१३॥

कौमारेण तु गर्विष्ठो यस्मान्मां शापयिष्यसि ॥

तस्मात्त्वमपि विप्रर्षे जरायुक्तो भविष्यसि

॥१४॥

एवं शप्तस्तदा देवि नारदो मुनिपुंगवः ॥

एकान्ते निर्मले स्थाने कंटकास्थिविवर्जिते

॥१५॥

कृष्णाजिनपरिच्छिन्ने ह्युपविष्टो वरासने ॥

ऋषितोया तटे रम्ये प्रतिष्ठाप्य महामुनिः

॥१६॥

सूर्यस्य प्रतिमां रम्यां सर्वदारिद्र्यनाशिनीम् ॥

तुष्टाव विविधैः स्तोत्रैरादित्यं तिमिरापहम्

॥१७॥

नमस्त ऋक्स्वरूपाय साम्नां धामग ते नमः ॥

ज्ञानैकरूपदेहाय निर्धूततमसे नमः

॥१८॥

शुद्धज्योतिःस्वरूपाय निर्मूर्तायामलात्मने ॥

वरिष्ठाय वरेण्याय सर्वस्मै परमात्मने

॥१९॥

नमोऽखिलजगद्व्यापिस्वरूपानंदमूर्तये ॥

सर्वकारणपूताय निष्ठायै ज्ञानचेतसाम्

॥२०॥

नमः सर्वस्वरूपाय प्रकाशालक्ष्यरूपिणे ॥

भास्कराय नमस्तुभ्यं तथा दिनकृते नमः

॥२१॥

ईश्वर उवाच

एवं संस्तुवतस्तस्य पुरतस्तस्य चेतसा ॥

प्रादुर्बभूव देवेशि जगच्चक्षुः सनातनः ॥

उवाच परमं प्रीतो नारदं मुनिपुंगवम्

॥२२॥

सूर्य उवाच

वरं वरय विप्रर्षे यस्ते मनसि वर्तते ॥

तुष्टोऽहं तव दास्यामि यद्यपि स्यात्सुदुर्लभम्

॥२३॥

नारद उवाच

कुमार वयसा युक्तो जरायुक्तकलेवरः ॥

प्रसादात्स्यां हि ते देव यदि तुष्टो दिवाकर

॥२४॥

सप्तम्यां रविवारेण यस्त्वां पश्यति मानवः ॥

तस्य रोग भयं माऽस्तु प्रसादात्तिमिरापह

॥२५॥

ईश्वर उवाच

एवं भविष्यतीत्युक्त्वा ह्यन्तर्धानं गतो रविः ॥

इत्येतत्कथितं देवि माहात्म्यं सकलं तव ॥

नारदादित्यदेवस्य सर्वपातकनाशनम्

॥२६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नारदादित्यमाहात्म्यवर्णनंनाम पञ्चोत्तरत्रिशततमोऽध्यायः ॥ ३०५ ॥