मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १७६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 176

ततो गच्छेन्महादेवि सिद्धेश्वरमिति स्मृतम्

ईश्वर उवाच

ततो गच्छेन्महादेवि सिद्धेश्वरमिति स्मृतम् ॥

अर्कस्थलात्तथाऽऽग्नेय्यां नातिदूरे व्यवस्थितम्

॥१॥

अष्टादश सहस्राणि ऋषीणामूर्ध्वरेतसाम् ॥

तस्मिँल्लिंगे तु सिद्धानि सिद्धेश्वरमतः स्मृतम्

॥२॥

स्नात्वाऽर्चयेन्नरो भक्त्या सोपवासो जितेन्द्रियः ॥

संपूज्य विधिवद्देवं दद्याद्विप्रेषु दक्षिणाम् ॥

सर्वकामसमृद्धस्तु स याति परमं पदम्

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहरूया संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासज्ञेत्रमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनाम षट्सप्तत्युत्तरशततमोऽध्यायः ॥ १७६ ॥