शंखावर्त्ततीर्थमाहात्म्यवर्णनम्
ईश्वर उवाच
ततः पश्चिमतो गच्छेन्न्यंकुमत्यास्तटे शुभे ॥
दक्षिणां दिशमाश्रित्य स्थितं तीर्थं महाप्रभम्
॥१॥शंखावर्त्तमितिख्यातं यत्र चित्रांकिता शिला ॥
स्वयंभूता महादेवि रक्तगर्भा सुशोभना
॥२॥छिन्ने त्वद्यापि तत्रैव सुरक्तं संप्रदृश्यते ॥
विष्णुक्षेत्रं हि तत्प्रोक्तं शंखो यत्र हतः पुरा
॥३॥वेदापहारी देवेशि विष्णुना प्रभविष्णुना ॥
कृतं शखोदकं तीर्थं शंखाकारं तु दृश्यते
॥४॥तत्र स्नात्वा नरो देवि मुच्यते ब्रह्महत्यया ॥
सप्त जन्मानि विप्रत्वं शूद्रस्यापि प्रजा यते
॥५॥पूर्वं तत्रैव गत्वा च ततो रुद्रगयां व्रजेत् ॥
गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः
॥६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंखावर्त्ततीर्थमाहात्म्यवर्णनंनाम पञ्चत्रिंशदुत्तरत्रिशत तमोऽध्यायः ॥ ३३५ ॥