मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३५७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 357

कोटीश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

तस्मादीशानदिग्भागे तत्कोटिनगरं स्मृतम् ॥

तस्य दक्षिणदिग्भागे स्थितं योजनमात्रकम् ॥

कोटीश्वरं महालिंगं कोटियज्ञफलप्रदम्

॥१॥

स्नात्वा तत्र विधानेन यस्तल्लिंगं प्रपूजयेत् ॥

स मुक्तः पातकैः सर्वैः कोटियज्ञफलं लभेत्

॥२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कोटीश्वरमाहात्म्यवर्णनंनाम सप्तपंचाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५७ ॥