नारदेश्वरीमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि पश्चिमे नारदेश्वरीम् ॥
नारदेश्वरसांनिध्ये सर्वदौर्भाग्यनाशनीम्
॥१॥या नारी पूजयेद्देवीं तृतीयायां समाहिता ॥
तदन्वये न दौर्भाग्ययुक्ता नारी भविष्यति
॥२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नारदेश्वरीमाहात्म्यवर्णनंनाम सप्तचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४७ ॥