मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १८९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 189

तस्यैव पश्चिमे भागे नातिदूरे व्यवस्थितम्

ईश्वर उवाच

तस्यैव पश्चिमे भागे नातिदूरे व्यवस्थितम् ॥

चण्डिका कर्ममोटी च योगिनी कोटिसंयुता ॥

पीठत्रयं महादेवि आद्यं त्रैलोक्यवन्दितम्

॥१॥

नवम्यां तत्र संपूज्य देवीपीठं च योगिनीम् ॥

स सर्वान्प्राप्नुयात्कामान्भवेत्स्वर्गांगनाप्रियः

॥२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासज्ञेत्रमाहात्म्ये कर्ममोटीमाहात्म्यवर्णनंनामैकोननवत्युत्तरशततमोऽध्यायः ॥ १८९ ॥