मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ८८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 88

ततो गच्छेन्महादेवि नीलरुद्रं द्वितीयकम्

ईश्वर उवाच

ततो गच्छेन्महादेवि नीलरुद्रं द्वितीयकम् ॥

भूतेशादुत्तरे भागे धनुषां षोडशे स्थितम्

॥१॥

महालिंगं महादेवि गणगंधर्वपूजितम् ॥

संस्नाप्य तं विधानेन ईशमंत्रेण पूजयेत्

॥२॥

कुमुदोत्पलसंभारैः सम्यक्संभावितात्मवान् ॥

कृत्वा प्रदक्षिणां तस्य नमस्कारेण पूजयेत्

॥३॥

एवं कृत्वा नरो देवि राजसूयफलं लभेत् ॥

वृषस्तत्रैव दातव्यः सम्यग्यात्राफलेप्सुभिः

॥४॥

नीलांजननिभो दैत्यो निहतश्चांतकः पुरा ॥

तस्य रोदयिता स्त्रीणां नीलरुद्रस्ततः स्मृतः

॥५॥

तस्य संक्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥

सम्यक्छ्रद्धान्वितैः प्राप्यं श्राव्यं तद्दर्शनोत्सुकैः

॥६॥

इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये नील रुद्रमाहात्म्यवर्णनंनामाष्टाशीतितमोऽध्यायः ॥ ८८ ॥