मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३२२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 322

दुर्गादित्यमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि तस्य दक्षिणसंस्थितम् ॥

दुर्गादित्येतिनामानं सर्वपापप्रणाशनम्

॥१॥

यदा दुःखमनुप्राप्ता दुर्गा दुःखविनाशिनी ॥

सूर्यमाराधयामास तदा दुःखविनुत्तये

॥२॥

ततः कालेन बहुना तस्यास्तुष्टो दिवाकरः ॥

उवाच मधुरं वाक्यं दुर्गां देवो महाप्रभाम् ॥

वरं वरय देवेशि तपसा तुष्टवानहम्

॥३॥

दुर्गोवाच

यदि तुष्टो दिवानाथ दुःखसंघं विनाशय

॥४॥

सूर्य उवाच

अचिरेणैव कालेन भगवांस्त्रिपुरांतकः ॥

संप्राप्स्यत्युत्तमं लिंगमुन्नते स्थान उत्तमे

॥५॥

दुर्गादित्येति मे नाम इह देवि भविष्यति ॥

एवमुक्त्वा महादेवि तत्रैवान्तर्दधे रविः ॥

सप्तम्यां रविवारेण दुर्गादित्यं प्रपूजयेत्

॥६॥

तस्य दुःखानि सर्वाणि कुष्ठानि विविधानि च ॥

विलयं यांति देवेशि दुर्गादित्यप्रपूजनात्

॥७॥

इति श्रीस्कांदे महापुराण एकाशीतिसा हरुयां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये दुर्गादित्यमाहात्म्यवर्णनंनाम द्वाविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२२ ॥