मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 33

स्वतीवृत्तांतवडवानलवचनवर्णनम्

देव्युवाच

पितुर्वधामर्षसुजात मन्युना यद्यत्कृतं कर्म पुरा महर्षिणा ॥

दधीचिपुत्रेण सुरप्रसाधिना सर्वं श्रुतं तद्धि मया समाधिना

॥१॥

पुनःपुनर्वै विबुधैः समानं यद्वृत्तमासीत्किमपि प्रधानम् ॥

कार्यं हि तत्सर्वमनुक्रमेण विज्ञातुमिच्छामि कुतूहलेन

॥२॥

ईश्वर उवाच

उक्तो यदासौ विबुधैः समस्तैरापः पुरा त्वं भुवि भक्षयस्व ॥

यतोऽमराणां प्रथमं हि जाता आपोऽग्रजाः सर्वसुरासुरेभ्यः

॥३॥

तेनैवमुक्तस्तु महात्मना तदा प्रदर्शयध्वं मम ता यतः स्थिताः ॥

पीत्वा सुराः सर्वमहं पुरस्तात्कृत्यं करिष्ये सुरभक्षणं हि

॥४॥

तत्रापि नेतुं यदि मां समर्था यत्रासते वारिचयाः समेताः ॥

अतोऽन्यथा नाहमलीकवादी प्राणे प्रयाते मुनिवाक्यकारी

॥५॥

आहोक्ते पुंडरीकाक्ष और्वं हि वाडवं तदा ॥

त्वां प्रापयिष्ये यत्रापः केन यानेन वाडव

॥६॥

वाडव उवाच

नाहं हयादिभिर्यानैर्गंतुं तत्र समुत्सहे ॥

कुमारीकरसंपर्कमेकं मुक्त्वा मतं हि मे

॥७॥

विष्णुरुवाच

एतत्ते सुलभं यानं तां कन्यामानयाम्यहम् ॥

या त्वां नेतुं समर्था स्यादपां स्थानं सुनिश्चितम्

॥८॥

ईश्वर उवाच

सुरभीशापसंतप्ता प्रागुपात्तदशाफला ॥

सरस्वती यानभूता तस्य सा विष्णुना कृता

॥९॥

ततोऽब्रवीद्विभुर्गंगां पार्श्वतः समुपस्थिताम् ॥

एनं वह्निं महाभागे वेगान्नय महोदधिम् ॥

नान्या शक्ता समानेतुं त्वां विना लोकपावनि

॥१०॥

गङ्गोवाच

नास्ति मे भगवञ्छक्ति रौर्वं वोढुं जगत्पते ॥

रौद्ररूपी महानेष दहत्येवानलो भृशम्

॥११॥

ततस्तु यमुनां प्राह सिन्धुं तस्या ह्यनन्तरम् ॥

अन्या नदीश्च विविधाः पृथक्पृथगुदारधीः

॥१२॥

अशक्तास्ताः समानेतुं पृष्टाश्च सुरसत्तमैः ॥

ततः सरस्वतीं प्राह देवदेवो जनार्द्दनः ॥

त्वमेव व्रज कल्याणि प्रतीच्यां लवणोदधौ

॥१३॥

एवं कृते सुराः सर्वे भविष्यन्ति भयोज्झिताः ॥

अन्यथा वाडवेनैते दह्यंते स्वेन तेजसा

॥१४॥

तस्मात्त्वं रक्ष विबुधाने तस्मात्तुमुलाद्भयात् ॥

मातेव भव सुश्रोणि सुराणामभयप्रदा

॥१५॥

एवमुक्ता हि सा तेन विष्णुना प्रभविष्णुना ॥

आह नाहं स्वतन्त्रास्मि पिता मे ध्रियते चिरात्

॥१६॥

तस्याहं कारिणी नित्यं कुमारी च धृतव्रता ॥

कालत्रयेप्यस्वतन्त्रा श्रूयते विबुधैः सुता

॥१७॥

पित्रादेशं विना नाहं पदमेकमपि क्वचित् ॥

गच्छामि तस्मात्कोऽप्यन्य उपायश्चिंत्यतां हरे

॥१८॥

तत्स्वरूपं विदित्वैवं समभ्येत्य पितामहम् ॥

तमब्रवीद्वासुदेवो देवकार्यमिदं कुरु

॥१९॥

नान्यथा शक्यते नेतुं वाडवोऽग्निर्महाबलः ॥

अदृष्टदोषां मुक्त्वेमां कुमारीं तनयां तव

॥२०॥

तच्छ्रुत्वा विष्णुना प्रोक्तं कुमारीं तनयां तदा ॥

शिरस्याधाय सस्नेहमुवाच प्रपितामहः

॥२१॥

याहि देवि सुरान्सर्वान्रक्ष त्वं भयमागतान् ॥

विनिक्षिप त्वं नीत्वैनं वाडवं लवणांभसि ॥

पितुर्वाक्यं हि सा श्रुत्वा प्रोवाच श्रुतिलक्षणा

॥२२॥

सरस्वत्युवाच

एषास्मि प्रस्थिता तात तव वाक्या दसंशयम् ॥

रौद्रोऽयं वाडवो वह्निस्तनुं मे भक्षयिष्यति

॥२३॥

प्राप्तं कलियुगं रौद्रं सांप्रतं पृथिवीतले ॥

लोकः पापसमाचारः स्पर्शयिष्यति मां प्रभो

॥२४॥

ततो दुःखतरं किं स्याद्यत्पापैः सह संगमः

॥२५॥

ब्रह्मोवाच

यदि पापजनाकीर्णं न वांछसि धरातलम् ॥

पातालतलसंस्था त्वं नय वह्निं महोदधौ

॥२६॥

यदातिश्रमसंयुक्ता वह्निना दह्यसे भृशम् ॥

तदा विभिद्य वसुधां प्रत्यक्षा भव पुत्रिके

॥२७॥

कृत्वा वक्त्रं विशालाक्षि प्राची भव सुमध्यमे ॥

ततो यास्यंति तीर्थानि त्वां श्रांतां चारुहासिनीम्

॥२८॥

तानि सर्वाणि चागत्य साहाय्यं ते वरानने ॥

करिष्यंति त्रयस्त्रिंशत्कोट्यो वै मम शासनात्

॥२९॥

गच्छ पुत्रि न संतापस्त्वया कार्यः कथंचन ॥

अरिष्टं व्रज पंथानं मा सन्तु परिपंथिनः ॥

ईश्वर उवाच ॥

एवमुक्ता तदा तेन ब्रह्मणाथ सरस्वती ॥

त्यक्त्वा भयं हृष्टमनाः प्रयातुं समुपस्थिता

॥३१॥

तस्याः प्रयाणसमये शंखदुंदुभिनिःस्वनैः ॥

मंगलानां च निर्घोषैर्जगदापूरितं शुभैः

॥३२॥

सितांबरधरा देवी सितचंदनगुंठिता ॥

शारदांबुदसंकाशा तारहारविभूषिता

॥३३॥

संपूर्णचंद्रवदना पद्मपत्रायतेक्षणा ॥

कीर्तिर्यथा महेंद्रस्य पूरयन्ती दिशो दश

॥३४॥

स्वतेजसा द्योतयंती सर्वमाभासयज्जगत् ॥

अनुव्रजंती गंगा वै तयोक्ता वरवर्णिनि

॥३५॥

द्रक्ष्यामि त्वां पुनरहं कुत्र वै वसतीं सखि ॥

एवमुक्ता तया गंगा प्रोवाच स्निग्धया गिरा

॥३६॥

यदैव वीक्षसे प्राचीदिशि प्राप्स्यसि मां तदा ॥

सुरैः परिवृता सर्वैस्तत्राहं तव सुवृते

॥३७॥

दर्शनं संप्रदास्यामि त्यज शोकं शुचिस्मिते ॥

तामापृच्छ्य ततो गंगां पुनर्दर्शनमस्तु ते

॥३८॥

गच्छ स्वमालयं भद्रे स्मर्त्तव्याऽहं त्वयाऽनघे ॥

यमुनापि तथा चैवं गायत्री सुमनोरमा

॥३९॥

सावित्रीसहिताः सर्वाः सख्यः संप्रेषितास्तदा ॥

ततो विसृज्य तां देवी नदी भूत्वा सरस्वती

॥४०॥

हिमवंतं गिरिं प्राप्य प्लक्षात्तत्र विनिर्गता ॥

अवतीर्णा धरापृष्ठे मत्स्यकच्छपसंकुला

॥४१॥

ग्राहडिंडिमसंपूर्णा तिमिनक्रगणैर्युता ॥

हसंती च महादेवी फेनौघैः सर्वतो दिशम्

॥४२॥

पुण्यतो यवहा देवीस्तूयमाना द्विजातिभिः ॥

वाडवं वह्निमादाय हयवेगेन निःसृता

॥४३॥

भित्त्वा वेगाद्धरापृष्ठं प्रविष्टाथ महीतलम् ॥

यदायदाभवच्छ्रांता दह्यते वाडवाग्निना ॥

तदातदा मर्त्यलोके याति प्रत्यक्षतां नदी

॥४४॥

ततस्तु जायते प्राची संतप्ता वाडवेन तु ॥

ततो वै यानि तीर्थानि कीर्त्तितानि पुरातनैः

॥४५॥

दिव्यांतरिक्षभौमानि सांनिध्यं यांति भामिनि ॥

ततश्चाश्वासिता तैः सा सरस्वती पुनर्नदी ॥

पातालतलमा साद्य जगाम मकरालयम्

॥४६॥

खदिरामोदमासाद्य तत्र सा वीक्ष्य सागरम् ॥

गंतुं प्रवृत्ता तं वह्निमादाय सुरसुंदरि

॥४७॥

निरूढभारमात्मानं देवादेशाद्विचिंत्य सा ॥

प्रहृष्टा सुमनास्तस्मात्प्रवृत्ता दक्षिणामुखी

॥४८॥

एतस्मिन्नेव काले तु ऋषयो वेदपारगाः ॥

चत्वारश्च महादेवि प्रभासं क्षेत्रमाश्रिताः

॥४९॥

हरिणश्चाथ वज्रश्च न्यंकुः कपिल एव च ॥

तपस्तप्यंति तत्रस्थाः स्वाध्यायासक्तमानसाः

॥५०॥

पृथक्पृथक्समाहूताः स्नानार्थं तैः सरस्वती ॥

सागरः सम्मुखस्तस्याः सहसा सम्मुपस्थितः

॥५१॥

ततः सा चिन्तयामास कथं मे सुकृतं भवेत् ॥

शापभीता च सा साध्वी पंचस्रोतास्तदाऽभवत्

॥५२॥

एकैकं तोषयामास तमृषिं वरवर्णिनि ॥

ततोऽस्याः पंच नामानि जातानि पृथिवीतले

॥५३॥

हरिणी वज्रिणी न्यंकुः कपिला च सरस्वती ॥

पानावगाहनान्नृणां पंचस्रोताः सरस्वती

॥५४॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥

एषां संयोगजं चान्यन्नराणां पंचमं हि यत्

॥५५॥

एतत्पंचविधं पुंसां पंचधाऽवस्थिता सती ॥

नाशयेत्पातकं घोरं सखीभिः सहिता नदी

॥५६॥

ब्रह्महत्यां महाघोरां प्रतिलोमा सरस्वती ॥

पानावगाहनान्नृणां नाशयत्यखिलं हि सा

॥५७॥

प्रमादान्मदिरापानदोषेणोपहतात्मनाम् ॥

तद्व्यपोहाय कपिला द्विजानां वहते नदी

॥५८॥

उपवासाज्जपाद्धोमात्स्नानात्पानाद्द्विजन्मनाम् ॥

सप्ताहान्नाशयेत्पापं तत्तद्भावेन चेतसा

॥५९॥

स्वयं तेऽपि विशुध्यंति यथोक्तविधिकारिणः ॥

न्यंकुं नदीं समासाद्य महतः पातकात्कृतात्

॥६०॥

स्नानोपासनपानेन वज्रिणी गुरुतल्पगम् ॥

नाशयत्यखिलं पुंसां पापं भूरिभयंकरम्

॥६१॥

संयोगजस्य पापस्य हरणाद्धरिणी स्मृता ॥

नदी पुण्यजलोपेता सप्ताहमवगाहनात्

॥६२॥

एवमेतानि पापानि सर्वाणि सुरसुंदरि ॥

नदी नाशयते तथ्यं पंचस्रोता सरस्वती

॥६३॥

ततोऽपश्यत्पुनश्चारु सा देवी पथि संस्थितम् ॥

पर्वतं सागरस्यांते रोद्धुं मार्गमिव स्थितम्

॥६४॥

ब्रह्माण्डमानदण्डोऽयं पुरतो गिरिसत्तमः ॥

व्रजन्त्याः सुरकार्येण मम विघ्नकरः स्थितः

॥६५॥

उच्चैस्तरं महाशैलमवलोक्य सरस्वती ॥

अथ वेगेन रुद्धेन गिरिणा विस्मिता सती

॥६६॥

एवं संचिन्तयेद्यावन्मनसा तन्म हाद्भुतम् ॥

तावन्मंगलशब्देन प्रतिबुद्धः कृतस्मरः

॥६७॥

गिरिशृंगद्वंद्वचरं ददर्श पुरुषं च सा ॥

तामाह देवीं स नगो मार्गो नास्तीह सुव्रते

॥६८॥

अन्यत्र क्वापि गच्छ त्वं यत्र तेऽभिमतं शुभे ॥

आहैवमुक्ते सा देवी नरं नगशिरःस्थितम्

॥६९॥

देवादेशात्समायाता न निरोध्या गिरे त्वया ॥

एवमुक्ते गिरिः प्राह तां देवीं सुमनोरमाम्

॥७०॥

पर्वतोऽहं त्वया भद्रे किं न ज्ञातः कृतस्मरः ॥

त्वत्स्पर्शनान्न दोषोस्ति कुमारी त्वं यतोऽनघे

॥७१॥

अतस्त्वां वरये देवि भार्या मे भव सुव्रते

॥७२॥

सरस्वत्युवाच

पिता मे ध्रियते यस्मात्तेन नाहं स्वयंवरा ॥

तव भार्या भविष्यामि मार्गं यच्छ ममाधुना

॥७३॥

एवमुक्तो गिरिः प्राह अनिच्छंतीं महाबलात् ॥

उद्वाहयिष्ये त्वां भद्रे कस्त्राता स्ति तवाधुना

॥७४॥

सा तं मनोभवाक्रान्तं मत्वा दिव्येन चक्षुषा ॥

आह नास्ति मम त्राता त्वामेव शरणं गता

॥७५॥

त्वयोद्वाह्या यद्य वश्यमहमेवं महाबल ॥

अस्नातां नोद्वह विभो स्नानं कर्त्तुं च देहि मे

॥७६॥

तामुवाच ततः शैलः स्वसंपदभिमानवान् ॥

सौख्यदं पश्य सुभगे मयि संपूर्णवैभवम्

॥७७॥

द्वंद्वानि यत्र गायंति किंनराणां मनोरमम् ॥

श्रूयते च सुनिध्वानं तंत्रीवाद्यमथापरम्

॥७८॥

तत्र तालास्तमालाश्च पिप्पलाः पनसास्तथा ॥

सदैव फलपुष्पाश्चा दृश्यंते सुमनोरमाः

॥७९॥

कुटजैः कोविदारैश्च कदंबैः कुरबैस्तथा ॥

मत्तालिकुलघुष्टैश्च भूधरो भाति सर्वतः

॥८०॥

हरांगरागवद्भाति क्वचित्कुटजकुड्मलैः ॥

क्वचित्तु कर्णिकारैश्च विष्णोर्वासःसमप्रभः

॥८१॥

तमालदलसंछन्नः क्वचिद्वैवस्वतद्युतिः ॥

क्वचिद्धातुविलिप्तांगो गणाध्यक्षवपुर्नगः

॥८२॥

चतुर्मुख इवाभाति हरितालवपुः क्वचित् ॥

क्वचित्सप्तच्छदैर्विष्णोर्वपुषा भात्ययं गिरिः

॥८३॥

क्वचित्कात्यायनीप्रख्यः प्रियंगुसुसमाकुलः ॥

क्वचित्केसरसंयुक्तैरनलाभो विभात्यसौ

॥८४॥

वृत्तैः सपुलकैः स्निग्धैः स्त्रीणामिव पयोधरैः ॥

दुष्प्राप्यैरल्पपुण्यानां क्वचिदाभाति बिल्वकैः

॥८५॥

सिंहैर्व्याघ्रैर्मृगैर्नागैर्वराहैर्वानरैस्तथा ॥

क्वचित्क्वचिदसौ भाति परस्परमनुव्रतैः

॥८६॥

शूलिकोद्भिन्नमाकाशमिव कुर्वद्भिरुच्चकैः ॥

एवमुक्ते प्रत्युवाच शारदा तं नगोत्तमम्

॥८७॥

यदि मां त्वं परिणये रुदंतीमेकिकां तथा ॥

गृहाण वाडवं हस्ते यावत्स्नानं करोम्यहम्

॥८८॥

एवमुक्ते स जग्राह त नगेद्रोऽपवर्जिम् ॥

कृतस्मरस्तत्संस्पर्शात्क्षणाद्भस्मत्वमागतः

॥८९॥

ततः प्रभृति ते तस्य पाषाणा मृदुतां गताः ॥

गृहदेवकुलार्थाय गृह्यंते शिल्पिभिः सह

॥९०॥

दग्ध्वा कृतस्मरं देवी पुनरादाय वाडवम् ॥

समुद्रस्य समीपे सा स्थिता हृष्टतनूरुहा

॥९१॥

तत्रस्था सा महादेवी तमाह वडवानलम् ॥

पश्य वाडव गर्जन्तं सागरं पुरतः स्थितम्

॥९२॥

गर्जंतं सोऽपि तं दृष्ट्वा प्रसर्पंतं च वीचिभिः ॥

तामाह किमिदं भद्रे भीतो मे लवणोदधिः

॥९३॥

प्रहस्योवाच सा बाला को न भीतस्तवानल ॥

भक्ष्यस्ते विहितो यस्मात्तव देवैर्महाबल

॥९४॥

स तस्यास्तद्वचः श्रुत्वा संप्रहृष्टस्तु पावकः ॥

दास्यामि ते वरं भद्रे यथेष्टं प्रार्थयस्व नः

॥९५॥

तेनैवमुक्ता सा देवी वाडवेनाग्निना तदा ॥

सस्मार कारणात्मानं विष्णुं कमललोचनम्

॥९६॥

दृष्टोसावात्महृत्संस्थस्तया देवो जनार्द्दनः ॥

स्मृतमात्रः सरस्वत्या परस्त्रिभुवनेश्वरः

॥९७॥

मनोदृष्ट्या विलोक्याह सा तमंतःस्थमच्युतम् ॥

वाडवो यच्छति वरमहं तं प्रार्थयामि किम्

॥९८॥

ततस्तेन हृदिस्थेन प्रोक्ता देवी सरस्वती ॥

प्रार्थनीयो वरो भद्रे सूचीवक्त्रत्वमादरात्

॥९९॥

ततस्त्वभिहितो देव्या यदि मे त्वं वरप्रदः ॥

ततः सूचीमुखो भूत्वा त्वं पिबापो महाबल

॥१००॥

एवमुक्तेन तत्तेन सूचीवेधसमं कृतम् ॥

घटिकापूरणं यद्वत्पपौ तद्वदनं जलम्

॥१०१॥

एवं स वाडवो वह्निः सुराणां भक्षणोद्यतः ॥

वंचितो विष्णुना याति मेधामाधाय यत्नतः

॥१०२॥

सर्गमेतं नरः पुण्यं वाच्यमानं शृणोति यः ॥

स विष्णु लोकमासाद्य तेनैव सह मोदते

॥१०३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सर स्वतीवृत्तांतवडवानलवचनवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥