मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ४२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 42

ततो गच्छेन्महादेवि चण्डीशं देवमुत्तमम्

ईश्वर उवाच

ततो गच्छेन्महादेवि चण्डीशं देवमुत्तमम् ॥

सोमेशादीशदिग्भागे धनुषां सप्तके स्थितम्

॥१॥

दण्डपाणेस्तु भवनाद्दक्षिणे नातिदूरगम् ॥

चंड्या प्रतिष्ठितं पूर्वं चण्डेनाराधितं ततः

॥२॥

गणेन मम देवेशि तत्कृत्वा दुष्करं तपः ॥

तेन चण्डेश्वरं लिंगं प्रख्यातं धरणीतले

॥३॥

स्नापयेत्पयसा पूर्वं दध्ना घृतयुतेन च ॥

मधुनेक्षुरसेनैव कुंकुमेन विलेपयेत्

॥४॥

कर्पूरोशीरमिश्रेण मृगनाभिरसेन च ॥

चन्दनेन सुगन्धेन पुष्पैः संपूजयेत्ततः

॥५॥

दग्ध्वा धूपं पुरो देवि ततो देवस्य चागुरुम् ॥

वस्त्रैः संपूजयेत्पश्चादात्मवित्तानुसारतः

॥६॥

नैवेद्यं परमान्नं च दत्त्वा दीपसम न्वितम् ॥

ततो दद्याद्द्विजातिभ्यो यथाशक्त्या तु दक्षिणाम्

॥७॥

दक्षिणां दिशमास्थाय यत्किंचित्तत्र दीयते ॥

चण्डीशस्य वरारोहे तत्सर्वं चाक्षयं भवेत्

॥८॥

यः श्राद्धं कुरुते तत्र चण्डीशस्य तु दक्षिणे ॥

आकल्पं तृप्तिमायांति पितरस्तस्य भामिनि

॥९॥

अयने चोत्तरे प्राप्ते यः कुर्याद्घृत कम्बलम् ॥

न स भूयोऽत्र संसारे जन्म प्राप्नोति दारुणम्

॥१०॥

एवं कृत्वा नरो भक्त्या यात्रां देवस्य शूलिनः ॥

निर्माल्यातिक्रमोद्भूतैरज्ञानाद्भक्षणोद्भवैः ॥

पापैः प्रमुच्यते जंतुस्तथाऽन्यैः कर्मसंभवैः

॥११॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये चण्डीशमाहात्म्यवर्णनंनामद्विचत्वारिंशोऽध्यायः ॥ ४२ ॥