वृहस्पतीश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि देवं गुरुनिषेवितम् ॥
उमायाः पूर्वदिग्भागे सिद्धेशाग्नेयगोचरे
॥१॥संस्थितं तु महल्लिंगं देवाचार्य प्रतिष्ठितम् ॥
आराध्य परया भक्त्या लिंगं वर्षसहस्रकम्
॥२॥तोषयामास देवेशं भवं शर्वमुमापतिम् ॥
प्राप्तवानखिलान्कामानप्राप्यानकृतात्मभिः
॥३॥देवानां चैव पूज्यत्वं प्राप्य ज्ञानमथैश्वरम् ॥
ग्रहत्वं च तथा प्राप्य मोदते दिवि सांप्रतम्
॥४॥तं दृष्ट्वा मानवो भक्त्या न दुर्गति मवाप्नुयात् ॥
बृहस्पतिकृतं लिंगं ये पश्यंति नरोत्तमाः
॥५॥बृहस्पतिकृता पीडा नैव तेषां हि जायते ॥
तत्र शुक्लचतुर्दश्यां गुरुवारे तथा प्रिये
॥६॥संपूज्य विधिवल्लिंगं सम्यग्राजोपचारतः ॥
अथवा भक्तिभावेन प्राप्नुयात्परमं पदम्
॥७॥स्नानं पलसहस्रेण पंचामृतरसेन यः ॥
करोति भक्त्या मर्त्यो वै मुच्यते स ऋणत्रयात्
॥८॥मातृकात्पैतृकाद्देवि तथा गुरुसमुद्भवात् ॥
सर्वपापविशुद्धात्मा निर्द्वंद्वो मुक्तिमाप्नुयात्
॥९॥एवं संक्षेपतः प्रोक्तं माहात्म्यं गुरुदैवतम् ॥
शृणुयाद्यस्तु भावेन तस्य प्रीतो गुरुर्भवेत्
॥१०॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वृहस्पतीश्वरमाहात्म्यवर्णनंनाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥