मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ८६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 86

पांडवेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

तस्यास्तु दक्षिणे भागे स्थितं लिंगं महाप्रभम् ॥

पांडवेश्वरनामाढ्यं पंचभिः स्थापितं क्रमात्

॥१॥

गुप्तचर्यां यदा याताः पांडवा वनवासिनः ॥

तीर्थयात्राप्रसंगेन प्रभासं क्षेत्रमागताः

॥२॥

तस्मिन्काले महादेवि सं प्राप्ते सोमपर्वणि ॥

स्थापयामासुस्ते सर्वे लिंगं संनिहिता तटे

॥३॥

मार्कण्डप्रमुखान्कृत्वा ऋत्विजो ब्राह्मणोत्तमान् ॥

वेदोक्तैः कारयामासुरभिषेकं वृषान्ददुः

॥४॥

ततः प्रसन्ना ऋषयो मार्कंडप्रमुखाः प्रिये ॥

प्रतिष्ठितस्य लिंगस्य पांडवैर्वरवर्णिनि

॥५॥

ऋषय ऊचुः

ये चैतत्पूजयिष्यंति लिंगं पांडवपूजितम् ॥

ते वै पूज्या भविष्यंति देवदानवरक्षसाम्

॥६॥

अश्वमेधफलं तेषां सम्यक्छ्रद्धार्चनेन वै ॥

भविष्यति न संदेहो ह्यस्मद्वाक्यप्रभावतः

॥७॥

स्नात्वा संनिहिताकुंडे योऽर्चयेत्पांडवेश्वरम् ॥

माघे मासि समग्रे तु स साक्षात्पुरुषोत्तमः

॥८॥

दर्शनेनापि तस्यापि पापं याति सहस्रधा ॥

विष्णुरूपो हि स प्रोक्तो नात्र कार्या विचारणा

॥९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये संनिहित्यामाहात्म्ये पांडवेश्वरमाहात्म्यवर्णनंनाम षडशीतितमोऽध्यायः ॥ ८६ ॥