गन्धर्वेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि गंधर्वेश्वरमुत्तमम् ॥
दण्डपाणेस्तु भवनादुत्तरे निकटे स्थितम्
॥१॥यत्र गंधर्वराजो वै घनवाहेति विश्रुतः ॥
तस्य गंधर्वसेनेति ख्याता पुत्री महाप्रभा
॥२॥शिखंडिना गणेनैव सा शप्ता रूपगर्विता ॥
ततो गोशृंगऋषिणा दत्तस्तस्या अनुग्रहः
॥३॥सोमवारव्रतेनैव सोमेशाराधनं प्रति ॥
ततः क्षेत्रं समागत्य तपः कृत्वा सुदुश्चरम्
॥४॥लिंगं प्रतिष्ठयामास तत्र गंधर्वराट् स्वयम् ॥
तथैव पुत्र्या तस्यैव तत्र लिंगं प्रतिष्ठितम्
॥५॥अथ तत्रैव देवेशि दंडपाणेः समीपतः ॥
घनवाहेश्वरं नाम यो लिंगं यत्नतोऽर्चयेत्
॥६॥गंधर्वलोकमाप्नोति दृष्ट्वा स प्रयतः शुचिः ॥
इति ते कथितं देवि गांधर्वं लिंगमुत्तमम्
॥७॥तृतीयं सर्वपापानां नाशनं पुण्यवर्द्धनम् ॥
अग्नितीर्थे नरः स्नात्वा पूज्य गंधर्वपूजितम्
॥८॥अयने चोत्तरे प्राप्ते निर्वाणमधिगच्छति ॥
श्रुत्वा ऽभिनंद्य माहात्म्यं मुच्यते महतो भयात्
॥९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये गन्धर्वेश्वरमाहात्म्यवर्णनंनाम चतुःपंचाशोऽध्यायः ॥ ५४ ॥