विमलेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि तत्पूर्वे विमलेश्वरम् ॥
गौर्याः पूर्वं समीपस्थं नातिदूरे व्यवस्थितम्
॥१॥गुरोर्नैर्ऋत्यदिग्भागे स्थितं पापप्रणाशनम् ॥
अपि कृत्वा महापापं नारी वा पुरुषोऽपि वा
॥२॥क्षयाभिभूतदेहो वा तं समभ्यर्च्य भक्तितः ॥
सर्वदुःखान्तगो भूत्वा निर्मलं पदमाप्नुयात्
॥३॥गंधर्वसेना यत्रैव विमलाऽभूत्क्षया न्विता ॥
विमलेश्वरनाम्ना वै तल्लिंगं प्रथितं क्षितौ
॥४॥इति ते कथितं सर्वं विमलेश्वरसूचकम् ॥
माहात्म्यं सर्वपापघ्नं तुरीयं भवसुन्दरि
॥५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये विमलेश्वरमाहात्म्यवर्णनंनाम पञ्चपञ्चाशोऽध्यायः ॥ ५५ ॥