चन्द्रोत्पत्तिवर्णनम्
ईश्वर उवाच
अथ दैत्यावताराणां क्रमो हि कथ्यते पुनः ॥
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ
॥१॥तथा शत सहस्राणि यानि कानि द्विसप्ततिम् ॥
अशीतिं च सहस्राणि त्रैलोक्यस्येश्वरोऽभवत्
॥२॥सौत्येऽहन्यतिरात्रस्य कश्यपस्याश्वमेधिके
॥३॥उपक्षिप्ता सनं यत्तु होतुरर्थे हिरण्मयम् ॥
निषसाद स गर्तो(?)ऽत्र हिरण्यकशिपुस्ततः
॥४॥शतवर्षसहस्राणां तपश्चक्रे सुदुश्चरम् ॥
दशवर्षसहस्राणि दित्या गर्भे स्थितः पुरा
॥५॥हिरण्यकशिपोर्दैत्यः श्लोको गीतः पुरातनः ॥
राजा हिरण्यकशिपुर्यां यामाशां निरीक्षते
॥६॥तस्यां तस्यां दिशि सुरा नमश्चक्रुः सहर्षिभिः १।
पर्याये तस्य राजाभूद्बलिर्वर्षार्बुदं पुनः
॥७॥षष्टिं चैव सहस्राणि त्रिंशच्च नियुतानि च ॥
बले राज्याधिकारस्तु याव त्कालं बभूव ह
॥८॥प्रह्लादो निगृहीतोऽभूत्तावत्कालं तथा सुरैः १।
इंद्रादयस्ते विख्याता असुराञ्जघ्नुरोजसा
॥९॥दैत्यसंस्थमिदं सर्वमा सीद्दशयुगं किल ॥
असपत्नं ततः सर्वमष्टादशयुगं पुनः
॥१०॥त्रैलोक्यमिदमव्यग्रं महेंद्रेण तु पालितम् ॥
त्रेतायुगे तु दशमे कार्त्तवीर्यो महाबलः
॥११॥पंचाशीतिसहस्राणि वर्षाणां वै नराधिपः ॥
स सप्तरत्नवान्सम्राट् चक्रवर्ती बभूव ह
॥१२॥द्वीपेषु सप्तसु स वै खड्गी चर्मी शरासनी ॥
रथी राजा सानुचरो योगाच्चौरानपश्यत
॥१३॥प्रणष्टद्रव्यता यस्य स्मरणान्न भवेन्नृणाम् ॥
चतुर्युगे त्वतिक्रांते मनौ ह्येकादशे प्रभौ
॥१४॥अर्द्धावशिष्टे तस्मिंस्तु द्वापरे संप्रवर्तिते ॥
मानवस्य नरिष्यंतो ह्यासीत्पुत्रो मदः किल
॥१५॥नवमस्तस्य दायादस्तृणबिंदुरिति स्मृतः ॥
त्रेतायुगमुखे राजा तृतीये संबभूव ह
॥१६॥तस्य कन्या त्विलविला रूपे णाप्रतिमाऽभवत् ॥
पुलस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत्
॥१७॥ऋषिरैलविलो यस्यां विश्रवाः समपद्यत ॥
तस्य पत्न्यश्च तिस्रस्तु पौलस्त्यकुलमंडनाः
॥१८॥बृहस्पतेः शुभा कन्या नाम्ना वै वेदवर्णिनी ॥
पुष्पोत्कटा च वीका च उभे माल्यवतः सुते
॥१९॥केकसी मालिनः कन्या तस्यां देवि शृणु प्रजाः ॥
ज्येष्ठं वैश्रवणं तस्य सुषुवे वरवर्णिनी
॥२०॥अष्टदं(?) हरिच्छ्मश्रुं शंकुकर्णं विलोहितम् ॥
श्वपादं ह्रस्वबाहुं च पिंगलं शुचिभूषणम्
॥२१॥त्रिपादं तु महाकायं स्थूलशीर्षं महाहनुम् ॥
एवंविधं सुतं दृष्ट्वा विरूपं रूपतस्तदा
॥२२॥तदा दृष्ट्वाब्रवीत्तं तु कुबेरोऽयमिति स्वयम् ॥
कुत्सायां क्वितिशब्दोयं शरीरं वेरमुच्यते
॥२३॥कुबेरः कुशरीरत्वान्नाम्ना तेन च सोंकितः ॥
तस्य भार्य्याऽभवद्वृद्धिः पुत्रस्तु नलकूबरः
॥२४॥कैकस्यजनयत्पुत्रं रावणं राक्षसाधिपम् ॥
शंकुकर्णं दशग्रीवं पिगलं रक्तमूर्द्धजम्
॥२५॥वसुपादं विंशद्भुजं महाकायं महाबलम् ॥
कालांजननिभं चैव दंष्ट्रिणं रक्तलोचनम्
॥२६॥राक्षसेनौजसा युक्तं रूपेण च बलेन च ॥
निसर्गाद्दारुणः क्रूरो रावणाद्रावणः स्मृतः
॥२७॥हिरण्यकशिपुस्त्वासीत्स राजा पूर्वजन्मनि ॥
चतुर्युगानि राजा तु तथा दश स राक्षसः
॥२८॥पंच कोटीस्तु वर्षाणां संख्यताः संख्याया प्रिये ॥
नियुतान्येकषष्टिं च संख्यावद्भिरुदाहृतम्
॥२९॥षष्टिं चैव सहस्राणि वर्षाणां स हि रावणः ॥
देवतानामृषीणां च घोरं कृत्वा प्रजागरम्
॥३०॥त्रेतायुगे चतुर्विंशे रावणस्तपसः क्षयात् ॥
रामं दाशरथिं प्राप्य सगणः क्षयमेयिवान्
॥३१॥योऽसौ देवि दशग्रीवः संबभूवारिमर्द्दनः ॥
दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः
॥३२॥श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूव ह ॥
रावणं कुंभकर्णं च कन्यां शूर्पणखां तथा
॥३३॥विभीषणं चतुर्थं च कैकस्यजनयत्सुतान् ॥
मनोहरः प्रहस्तश्च महापार्श्वः खरस्तथा
॥३४॥पुष्पोत्कटायास्ते पुत्राः कन्या कुम्भीनसी तथा ॥
त्रिशिरा दूषणश्चैव विद्युज्जिह्वश्च राक्षसः ॥
कन्यैका श्यामिका नाम वीकायाः प्रसवः स्मृतः
॥३५॥इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा नव ॥
विभीषणो विशुद्धात्मा दशमः परिकीर्तितः
॥३६॥पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः ॥
भूताः पिशाचाः सर्पाश्च शूकरा हस्तिनस्तथा
॥३७॥अनपत्यः क्रतुस्त्वस्मिन्स्मृतो वैवस्वतेंतरे ॥
अत्रेः पत्न्यो दशैवासन्सुन्दर्यश्च पतिव्रताः
॥३८॥भद्राश्वस्य घृताच्यंता जज्ञिरे दश चाप्सराः
॥३९॥भद्रा शूद्रा च मद्रा च नलदा जलदा तथा ॥
उर्णा पूर्णा च देवेशि या च गोपुच्छला स्मृता
॥४०॥तथा तामरसा नाम दशमी रक्तकोटिका ॥
एतासां च महादेवि ख्यातो भर्त्ता प्रभाकरः
॥४१॥स्वर्भानुना हते सूर्ये पतितेस्मिन्दिवो महीम् ॥
तमोऽभिभूते लोकेस्मिन्प्रभा येन प्रवर्त्तिता ॥
!
॥४२॥स्वस्ति तेस्त्विति चैवोक्तः पतन्निह दिवाकरः ॥
ब्रह्मर्षेर्वचनात्तस्य न पपात यतः प्रभुः
॥४३॥ततः प्रभाकरेत्युक्तः प्रभुरेवं महर्षिभिः ॥
भद्रायां जनयामाम् सोमं पुत्रं यशस्विनम्
॥४४॥त्विषिमान्धर्मपुत्रस्तु सोमो देवो वरस्तु सः ॥
शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाचरः
॥४५॥पिता सोमस्य वै देवि जज्ञेऽत्रिर्भगवानृषिः ॥
तत्रात्रिः सर्वलोकेशं भृत्वा स्वे नयने स्थितः
॥४६॥कर्मणा मनसा वाचा शुभान्येव समा चरत् ॥
काष्ठकुड्यशिलाभूत ऊर्द्ध्वबाहुर्महाद्युतिः
॥४७॥सुदुस्तरं नाम तपस्तेन तप्तं महत्पुरा ॥
त्रीणि वर्षसहस्राणि दिव्यानि सुरसुंदरि
॥४८॥तस्योर्द्ध्वरेतसस्तत्र स्थितस्यानिमिषस्य ह ॥
सोमत्वं वपुरापेदे महाबुद्धेस्तु वै शुभे
॥४९॥ऊर्द्ध्वमाचक्रमे तस्य सोमसंभावितात्मनः ॥
नेत्राभ्यां सोमः सुस्राव दशधा द्योतयन्दिशः
॥५०॥तद्गर्भं विधिना दृष्टा दिशोदश दधुस्तदा ॥
समेत्य धारयामासुर्न च धर्तुमशक्नुवन्
॥५१॥स ताभ्यः सहसैवेह दिग्भ्यो गर्भश्च शाश्वतः ॥
पपात भावयँल्लोकाञ्छीतांशुः सर्वभावनः
॥५२॥यदा न धारणे शक्तास्तस्य गर्भस्य ताः स्त्रियः ॥
ततस्ताभ्यः स शीतांशुर्निपपात वसुंधराम्
॥५३॥पतितं सोममालोक्य ब्रह्मा लोकपितामहः ॥
रथमारोपयामास लोकानां हितका म्यया
॥५४॥स तदैव मया देवि धर्मार्थं सत्यसंगरः ॥
युक्तो वाजिसहस्रेण सितेन सुरसुंदरि
॥५५॥तस्मिन्निपतिते देवि पुत्रेत्रेः परमात्म नि ॥
तुष्टुवुर्ब्रह्मणः पुत्रा मानसाः सप्त ये श्रुताः
॥५६॥तथैवांगिरसः सर्वे भृगोश्चैवात्मजास्तथा ॥
ऋग्भिस्तु सामभिश्चैव तथैवांगिरसैरपि
॥५७॥तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः ॥
आप्यायमानं लोकांस्त्रीन्भासयामास सर्वशः
॥५८॥स तेन रथमुख्येन सागरांतां वसुंधराम् ॥
त्रिःसप्तकृत्वोतियशाश्चकाराभिप्रदक्षिणम्
॥५९॥तस्य यच्चापि तत्तेजः पृथिवीमन्वपद्यत ॥
ओषध्यस्ताः समुत्पन्नास्ते जसाऽज्वलयन्पुनः
॥६०॥ताभिर्धिनोत्ययं लोकं प्रजाश्चैव चतुर्विधाः ॥
ओषध्यः फलपाकांताः कणाः सप्तदश स्मृताः
॥६१॥व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः
॥६२॥प्रियंगुः कोविदारश्च कोरदूषाः सतीनकाः ॥
माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः
॥६३॥आढक्यश्चणकाश्चैव कणाः सप्तदश स्मृताः ॥
इत्येता ओषधीनां च ग्राम्याणां जातयः स्मृताः
॥६४॥ओषध्यो यज्ञियाश्चैव ग्राम्या रण्याश्चतुर्द्दश ॥
व्रीहयश्च यवाश्चैव गोधूमास्त्वणवस्तिलाः
॥६५॥प्रियंगुषष्ठा इत्येते सप्तमास्तु कुलत्थकाः ॥
श्यामाकास्त्वथ नीवारा जर्तिलाः सगवेधुकाः
॥६६॥ऊरुविन्दा मर्कटकास्तथा वेणुयवाश्च ये ॥
ग्राम्यारण्यास्तथा ह्येता ओषध्यस्तु चतुर्दश
॥६७॥तृणगुल्मलता वीरुद्वल्लीगुच्छादि कोटिशः ॥
एतेषामधिपश्चन्द्रो धारयत्यखिलं जगत्
॥६८॥ज्योत्स्नाभिर्भगवान्सोमो जगतो हितकाम्यया ॥
ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः
॥६९॥बीजौषधीनां विप्राणां मंत्राणां च वरानने ॥
सोऽभिषिक्तो महातेजा राजा राज्ये निशाकरः
॥७०॥त्रीँल्लोकान्भावयामास स्वभासा भास्वतां वरः ॥
तं सिनी च कुहूश्चैव द्युतिःपुष्टिः प्रभा वसुः
॥७१॥कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥
सप्तविंशतिरिंदोस्तु दाक्षायण्यो महाव्रताः
॥७२॥ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः ॥
स तत्प्राप्य मह्द्राज्यं सोमः सोमवतां वरः
॥७३॥समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥
हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान्
॥७४॥सदस्यस्तस्य भगवान्हरिर्नारायणः प्रभुः ॥
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः
॥७५॥दक्षिणामददात्सोमस्त्रीँल्लोकांस्तु वरानने ॥
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च वै शुभे
॥७६॥प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः ॥
अतिराजति राजेन्द्रो दशधा भावयन्दिशः
॥७७॥तेन तत्प्राप दुष्प्राप्यमैश्वर्य्यमकृता त्मभिः ॥
स एवं वर्त्तते चन्द्रश्चात्रेय इति विश्रुतः
॥७८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चन्द्रोत्पत्तिवर्णनंनाम विंशोऽध्यायः ॥ २० ॥