मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २३१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 231

ततो गच्छेन्महादेवि यत्र जांबवती नदी

ईश्वर उवाच

ततो गच्छेन्महादेवि यत्र जांबवती नदी ॥

पुरा जांबवतीनाम विष्णोर्या महिषीप्रिया ॥

अपृच्छदर्जुनं साध्वी वद वार्तां कुरू द्वह

॥१॥

तस्यास्तद्वचनं श्रुत्वा अर्जुनो निश्वसन्मुहुः ॥

वाष्पगद्गदया वाचा इदं वचनमब्रवीत्

॥२॥

परित्यक्ता वयं भद्रे यादवैः सुमहात्मभिः ॥

९ बलदेवस्य वीरस्य सात्यकेश्च महात्मनः

॥३॥

अन्येषां यदुवीराणां पापकर्मातिनिर्घृणः ॥

जिजीविषुरिह प्राप्तो वासुदेवनिराकृतः

॥४॥

सा श्रुत्वा भर्तृनिधनमर्जुनाच्च महासती ॥

गंगातीरे समुत्पाद्य पावकं पावकप्रभा ॥

समुत्सृज्य महाकायं नदीभूत्वा विनिर्ययौ

॥५॥

सा गृहीत्वा सती भर्तुर्भस्म सर्वं चितेस्तथा ॥

प्रविष्टा सागरं देवि तदा जांबवती शुभा

॥६॥

या नारी तत्र देवेशि भक्त्या स्नानं समाचरेत् ॥

तदन्वयेपि काचित्स्त्री न वैधव्यमवाप्नुयात्

॥७॥

तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥

नरो वा यदि वा नारी प्राप्नोति परमां गतिम्

॥८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये जांबवतीनदीमाहात्म्यवर्णनंनामैकत्रिंशदुत्तरद्वि शततमोऽध्यायः ॥ २३१ ॥