मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३१४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 314

ऋषितीर्थसंगममाहात्म्यवर्णनम्

ईश्वर उवाच

अथ देवकुलाग्नेय्यां गव्यूत्या तत्र संस्थितम् ॥

समुद्रस्य तटे रम्यमृषितीर्थमनुत्तमम्

॥१॥

पाषाणाकृतयस्तत्र ऋषयोऽद्यापि संस्थिताः ॥

दृश्यंते मानुषे देवि सर्वपातकनाशनाः

॥२॥

तत्र ज्येष्ठे त्वमावास्यां प्राप्यते नाधमैर्न्नरैः ॥

पिंडदानं विशेषेण स्नानं श्रद्धासमन्वितैः

॥३॥

ऋषितोयासंगमे तु स्नानं श्राद्धं सुदुर्लभम् ॥

गोप्रदानं प्रशंसंति तत्र ते मुनिपुगवाः ॥

भोजनं ब्राह्मणानां तु यथाशक्त्या प्रदापयेत्

॥४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मूलचंडीशमाहात्म्य ऋषितीर्थसंगममाहात्म्यवर्णनंनाम चतुर्दशोत्तरत्रिशततमोऽध्यायः ॥ ३१४ ॥