मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १३४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 134

पुष्करावर्तकानदीमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि पुष्करावर्तकां नदीम् ॥

ब्रह्मकुंडादुत्तरतो नातिदूरे व्यवस्थिताम्

॥१॥

पुरा यज्ञे वर्तमाने सोमस्य तु महात्मनः ॥

ब्रह्मा सुरगणैः सार्धं प्रभासं क्षेत्रमागतः

॥२॥

सोमनाथप्रतिष्ठार्थमृक्षराजनिमंत्रितः ॥

प्रतिज्ञातं पुरा तेन ब्रह्मणा लोककारिणा

॥३॥

यावत्स्थास्याम्यहं मर्त्ये कस्मिंश्चित्कारणांतरे ॥

तावत्संध्यात्रयं वंद्यं नित्यमेव त्रिपुष्करे

॥४॥

एतस्मिन्नेव काले तु लग्नकाल उपस्थिते ॥

आदिष्टं शोभनं कालं ब्राह्मणैर्दैवचिन्तकैः

॥५॥

ततस्तं प्रस्थितं ज्ञात्वा पुष्करे तु पितामहम् ॥

संध्यार्थं रात्रिनाथो वै वाक्यमेतदुवाच ह

॥६॥

दैवज्ञैः कलितः काल एष एव शुभोदयः ॥

यथा कालात्ययो न स्यात्तथा नीतिर्विधीयताम्

॥७॥

तं ज्ञात्वा सांप्रतं कालं ब्रह्मा लोकपितामहः ॥

मनसा चिन्तयामास पुष्कराणि समाहितः

॥८॥

तानि वै स्मृतमात्राणि ब्रह्मणा वरवर्णिनि ॥

प्रादुर्भूतानि तत्रैव नद्यास्तीरे सुशोभने

॥९॥

आवर्तास्तत्र सञ्जाता ज्येष्ठमध्यकनीयसः ॥

अथ नामाकरोत्तस्या ब्रह्मा लोकपितामहः

॥१०॥

पुष्करावर्तका नाम्ना अद्यप्रभृति शोभना ॥

नदी प्रयास्यते लोके ख्यातिं मम प्रसादतः

॥११॥

अत्र स्नात्वा नरो भक्त्या तर्पयिष्यति यः पितॄन् ॥

त्रिपुष्करसमं पुण्यं लप्स्यते स तथेप्सितम्

॥१२॥

श्रावणे शुक्लपक्षस्य तृतीयायां नरोत्तमः ॥

यः पितॄंस्तर्पयेत्तत्र तृप्तिः कल्पायुतं भवेत्

॥१३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्करावर्तकानदीमाहात्म्यवर्णनंनाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३४ ॥