मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ८७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 87

भूतेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

एवं कृत्वा नरो यात्रां सम्यक्छ्रद्धासमन्वितः ॥

ततो गच्छेन्महादेवि रुद्रानेकादश क्रमात्

॥१॥

प्रभासक्षेत्रमध्यस्थान्महापातकनाशनान् ॥

यदेकादशधा पापमर्जितं मनुजैः पृथक्

॥२॥

तदेकादशरुद्राणां पूजनात्क्षयमेष्यति ॥

संक्रांतावयने वापि चंद्रसूर्यग्रहेऽथवा

॥३॥

अन्यासु पुण्यतिथिषु सम्यग्भावेन भावितः ॥

पूजयेदानुपूर्व्येण रुद्रैकादशकं क्रमात्

॥४॥

तेषां नामानि वक्ष्यामि यान्यतीतानि मे पुरा ॥

आद्ये कृतयुगे तानि शृणु देवि यथार्थतः

॥५॥

अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ॥

हरश्च बहुरूपश्च त्र्यंबकश्च सुरेश्वरः ॥

वृषाकपिश्च शंभुश्च कपर्दी चापराजितः

॥६॥

आदौ कृतयुगे देवि त्रेतायां द्वापरेऽपि च ॥

कलौ युगे तु संप्राप्ते जातं नामांतरं पुनः

॥७॥

एकादशधा रुद्राणां तानि ते वच्मि सांप्रतम् ॥

भूतेशो नीलरुद्रश्च कपाली वृषवाहनः

॥८॥

त्र्यंबको घोरनामा च महाकालोऽथ भैरवः ॥

मृत्युंजयोऽथ कामेशो योगेश इति कीर्तितः ॥

एकादशैते रुद्रास्ते कथिताः क्रमशः प्रिये ॥

९ ]।

अनादिनिधना देवि भेदभिन्नास्तु ते पृथक् ॥

एकादशस्वरूपेण पृथङ्नामप्रभेदतः

॥१०॥

देव्युवाच

भगवन्विस्तराद्ब्रूहि लिंगैकादशकक्रमम् ॥

स्थानसीमाप्रभेदेन माहात्म्योत्पत्तिकारणैः

॥११॥

कथं पूज्यानि तानीश के मंत्राः को विधिः स्मृतः ॥

कस्मिन्पर्वणि काले वा सर्वं विस्तरतो वद

॥१२॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि रहस्यं पापनाशनम् ॥

सोमनाथादितः कृत्वा सिद्धिनाथादिकारणम्

॥१३॥

यच्छ्रुत्वा मुच्यते जंतुः पातकैः पूर्वसंचितैः ॥

ये चैकादश रुद्रा वै तव प्रोक्ता मया प्रिये

॥१४॥

दश ते वायवः प्रोक्ता आत्मा चैकादशः स्मृतः ॥

तेषां नामानि वक्ष्यामि वायूनां शृणु मे क्रमात्

॥१५॥

प्राणोऽपानः समानश्च ह्युदानो व्यान एव च ॥

नागश्च कूर्मः कृकलो देवदत्तो धनंजयः

॥१६॥

आत्मा चेति क्रमाज्ज्ञेया रुद्राधिपतयः क्रमात् ॥

तेषां यात्रां क्रमाद्वक्ष्ये सर्वप्राणिहिताय वै

॥१७॥

रुद्राणामादिदेवोऽसौ पूर्वं सोमेश्वरः प्रिये ॥

भूतेश्वरेति नाम्ना वै पूजयेत्तं विधानतः

॥१८॥

राजोपचारयोगेन श्रद्धापूतेन चेतसा ॥

पंचामृतेन संस्नाप्य सद्योजातेन पूजयेत्

॥१९॥

पुष्पैर्मनोहरैर्भक्त्या ध्यात्वा देवं सदाशिवम् ॥

त्रिभिः प्रदक्षिणीकृत्य साष्टांगं प्रणिपत्य च

॥२०॥

रुद्रैकादशयात्रार्थी निर्विघ्नार्थं व्रजेत्ततः ॥

भूतेश्वरेति यन्नाम प्रोक्तं तत्ते ब्रवीम्यहम्

॥२१॥

महदादि विशेषांतं भूतजालं यदीरितम् ॥

पंचविंशति संख्याकं तेषामीशो यतः स्मृतः

॥२२॥

तेन भूतेश्वरेत्युक्तं नाम तस्य पुरा किल ॥

पंचविंशतितत्त्वानि ज्ञात्वा मुक्तिमवाप्नुयात्

॥२३॥

भूतेशरुद्रं संपूज्य गच्छेद्वै मुक्तिमव्ययाम् ॥

इति संक्षेपतः प्रोक्तमादि रुद्रस्य कीर्तनम् ॥

कीर्तनीयं द्विजातीनां कीर्तितं पुण्यवर्द्धनम्

॥२४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये भूतेश्वरमाहात्म्यवर्णनंनाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥