मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २७०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 270

प्राचीसरस्वतीमंकीश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि यत्र प्राची सरस्वती ॥

तत्र स्थाने स्थितं लिंगं मंकीश्वरमिति श्रुतम्

॥१॥

तस्योत्पत्तिं प्रवक्ष्यामि सर्वपातकनाशिनीम् ॥

शृणु देवि महाभागे ह्याश्चर्यं यदभूत्पुरा

॥२॥

ऋषिर्मंकणको नाम स तेपे परमं तपः ॥

प्राचीमेत्य यताहारो नित्यं स्वाध्यायतत्परः

॥३॥

बहुवर्षसहस्राणि तस्यातीतानि भामिनि ॥

कस्यचित्त्वथ कालस्य विद्धादस्य वरानने

॥४॥

कराच्छाकरसो जातः कुशाग्रेणेति नः श्रुतम् ॥

स तं दृष्ट्वा महाश्चर्यं विस्मयं परमं गतः

॥५॥

मेने सिद्धिं परां प्राप्तो हर्षान्नृत्यमथाकरोत् ॥

तस्मिन्संनृत्यमाने च जगत्स्थावरजंगमम्

॥६॥

अनर्त्तत वरारोहे प्रभावात्तस्य वै मुनेः ॥

ततो देवा महेंद्राद्या ब्रह्मविष्णुपुरस्सराः ॥

ऊचुस्त्रिपुरहंतारं नायं नृत्येत्तथा कुरु

॥७॥

चलिताः पर्वताः स्थानात्क्षुभितो मकरालयः ॥

धरणी खण्डशो देव वृक्षाश्च निधनं गताः

॥८॥

उत्पथाश्च महानद्यो ग्रहा उन्मार्गसंस्थिताः ॥

त्रैलोक्यं व्याकुलीभूतं यावत्प्राप्नोति संक्षयम्

॥९॥

तावन्निवारयस्वैनं नान्यः शक्तो निवारणे

॥१०॥

स तथेति प्रतिज्ञाय गत्वा तस्य समीपतः ॥

द्विजरूपं समास्थाय तमृषिं वाक्यमब्रवीत्

॥११॥

को हर्षविषयः कस्मात्त्वयैतन्नृत्यते द्विज ॥

तस्मात्कार्यं वदाशु त्वं परं कौतूहलं द्विजः

॥१२॥

ऋषिरुवाच

किं न पश्यसि मे ब्रह्मन्कराच्छाकर सं च्युतम् ॥

अत एव हि मे नृत्यं सिद्धोऽहं नात्र संशयः

॥१३॥

ईश्वर उवाच

तस्य तद्वचनं श्रुत्वा भगवांस्त्रिपुरांतकः ॥

अंगुष्ठं ताडयामास अंगुल्यग्रेण भामिनि

॥१४॥

ततो विनिर्गतं भस्म तत्क्षणाद्धिमपांडुरम् ॥

अथाब्रवीत्प्रहस्यैनं भगवान्भूतभावनः

॥१५॥

पश्य मेंऽगुष्ठतो ब्रह्मन्भूरि भस्म विनिर्गतम् ॥

न नृत्येऽहं न मे हर्षस्तथापि मुनिसत्तम

॥१६॥

तद्दृष्ट्वा सुमहाश्चर्यं विस्मयं परमं गतः ॥

अब्रवीत्प्रांजलिर्भूत्वा हर्षगद्गदया गिरा

॥१७॥

नान्यं देवमहं मन्ये .त्वां मुक्त्वा वृषभध्वजम् ॥

नान्यस्य विद्यते शक्तिरीदृशी धरणीतले

॥१८॥

भगवानुवाच

ज्ञातोऽस्मि मुनिशार्दूल त्वया वेदविदां वर ॥

वरं वरय भद्रं ते नित्यं यन्मनसेप्सितम्

॥१९॥

ऋषिरुवाच

प्रसादाद्देवदेवस्य नृत्येन महता विभो ॥

यथा न स्यात्तपोहानिस्तथा नीतिर्विधीयताम्

॥२०॥

शंभुरुवाच

तपस्ते वर्द्धतां विप्र मत्प्रसादात्सहस्रधा ॥

प्राचीमन्विह वत्स्यामि त्वया सार्द्धमहं सदा

॥२१॥

सरस्वती महापुण्या क्षेत्रे चास्मिन्विशेषतः ॥

सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्

॥२२॥

प्राचीने ह्यृषिशार्दूल न चेहागच्छते पुनः ॥

आप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम्

॥२३॥

नियमैश्चोप वासैश्च शोषयन्देहमात्मनः ॥

जलाहारा वायुभक्षाः पर्णाहाराश्च तापसाः ॥

तथा च स्थंडिलशया ये चान्ये नियताः पृथक्

॥२४॥

ये स्नानमाचरिष्यंति तीर्थेऽस्मिन्नियमान्विताः ॥

ते यांति परमां सिद्धिं ब्रह्मणः परमं पदम्

॥२५॥

अस्मिंस्तीर्थे तु यो दानं त्रुटिमात्रं च कांचनम् ॥

ददाति द्विजमुख्याय मेरुतुल्यं भवेत्फलम्

॥२६॥

अस्मिंस्तीर्थे तु ये श्राद्धं करिष्यंतीह मानवाः ॥

एकविंशत्कुलोपेताः स्वर्गं यास्यंति ते ध्रुवम्

॥२७॥

पितॄणां वल्लभं तीर्थं पिंडेनैकेन तर्पिताः ॥

ब्रह्मलोकं गमिष्यंति सुपुत्रेणेह तारिताः

॥२८॥

भूयश्चान्नं प्रयच्छंति मोक्षमार्गं व्रजंति ते

॥२९॥

अत्र ये शुभ कर्माणः प्रभासस्थां सरस्वतीम् ॥

पश्यंति तेपि यास्यंति स्वर्गलोकं द्विजोत्तमाः

॥३०॥

ये पुनस्तत्र भावेन नराः स्नानपरायणाः ॥

ब्रह्मलोकं समासाद्य ते रमिष्यंति सर्वदा

॥३१॥

दधि प्रदद्याद्योऽपीह ब्राह्मणाय मनोरमम् ॥

सोऽप्यग्निलोकमासाद्य भुंक्ते भोगान्सुशोभनान्

॥३२॥

ऊर्णाप्रावरणं योऽपि भक्त्या दद्याद्द्विजोत्तमे ॥

सोऽपि याति परां सिद्धिं मर्त्यैरन्यैः सुदुर्लभाम्

॥३३॥

ये चात्र मलनाशाय विशेयुर्मानवा जलम् ॥

गोप्रदानफलं तेषां सुखेन फलमादिशेत्

॥३४॥

भावेन हि नरः कश्चित्तत्र स्नानं समाचरेत् ॥

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते

॥३५॥

तर्पणात्पिंडदानाच्च नरकेष्वपि संस्थिताः ॥

स्वर्गं प्रयांति पितरः सुपुत्रेणेह तारिताः

॥३६॥

ते लभंतेऽक्षयांल्लोका न्ब्रह्मविष्ण्वीशशब्दितान् ॥

भूयस्त्वन्नं प्रयच्छन्ति मोक्षमार्गं लभंति ते

॥३७॥

स्वर्गनिश्रेणिसंभूता प्रभासे तु सरस्वती ॥

नापुण्यवद्भिः संप्राप्तुं पुंभिः शक्या महानदी

॥३८॥

प्राची सरस्वती चैव अन्यत्रैव तु दुर्लभा ॥

विशेषेण कुरुक्षेत्रे प्रभासे पुष्करे तथा

॥३९॥

प्राचीं सरस्वतीं प्राप्य योन्यत्तीर्थं हि मार्गते ॥

स करस्थं समुत्सृज्य कूर्परेण समाचरेत्

॥४०॥

कृष्णपक्षे चतुर्दश्यां स्नानं च विहितं सदा ॥

पिण्याकेंगुदकेनापि पिंडं तत्र ददाति यः ॥

पितॄणामक्षयं भूयात्पितृलोकं स गच्छति

॥४१॥

सरस्वतीवाससमा कुतो रतिः सरस्वतीवाससमाः कुतो गुणाः ॥

सरस्वतीं प्राप्य गता दिवं नराः पुनः स्मरिष्यंति नदीं सरस्वतीम्

॥४२॥

ईश्वर उवाच

उक्त्वैवं भगवान्देवस्तत्रैवांतरधीयत ॥

सांनिध्यमकरोत्तत्र ततःप्रभृति शंकरः

॥४३॥

अत्र गाथा पुरा गीता विष्णुना प्रभविष्णुना ॥

स्नेहार्द्रेण च चित्तेन धर्मपुत्रं प्रति प्रिये

॥४४॥

मा गंगां व्रज कौंतेय मा प्रयागं च पुष्करम् ॥

तत्र गच्छ कुरुश्रेष्ठ यत्र प्राची सरस्वती

॥४५॥

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥

माहात्म्यं च सरस्वत्या भूयः किं श्रोतुमिच्छसि

॥४६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्राचीसरस्वतीमंकीश्वरमाहात्म्यवर्णनंनाम सप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७० ॥